________________
श्रीजम्बूकुमारचरित्रम् • ११५ सा वेश्या दृष्टा, पूर्वभवसम्बन्धात्स तद्गृहे दासो भूत्वा स्थितः, गृहकर्म च करोति । तद्वदहमपि भोगाशया दासो न भवामि ।
॥ इति तुरगीकथा षष्ठी ॥ सप्तमी रूपश्रीः कथयति, हे स्वामिन्नधुनाऽस्मदीयं कथनं न क्रियते परं पश्चान्मासाहसपक्षिवदात्मना दुःखं प्राप्स्यसि ।
यथैको मासाहसनामा पक्षी वने वसति, स पक्षी सुप्तव्याघ्रमुखे प्रविश्य दंष्ट्रायां स्थितं मांसपिण्डं गृहीत्वा बहिरागत्यैवं वदति ‘मा साहसं कुर्यात्' एवं स वदति परं करोति, पक्षिभिर्वारितोऽपि मांसलोलुपी पुनः पुनदंष्ट्रायां प्रविशति, स पक्षी व्याघ्रण कवलितः ।।
॥ इति मासाहसपक्षिद्रष्टान्तः ॥ जम्बूकुमारः कथयति, धर्ममित्रमेव शरणे रक्षति, यथा प्रधानस्य धर्ममित्रेण साहाय्यं दत्तम् । द्रष्टान्तश्चायम्
सुग्रीवपुरे जितशत्रुराजा, सुबुद्धिश्च मन्त्री, तस्य त्रीणि मित्राणि, एको नित्यमित्रः, द्वितीयः पर्वमित्रस्तृतीयस्तु जुहारमित्रः, इत्यवगतमेतत् । तदुपरि श्लोकोऽयम्
नित्यमित्रसमो देहः, स्वजनाः पर्वसन्निभाः । जुहारमित्रसमो ज्ञेयो, धर्मः परमबान्धवः ॥१॥
॥ इति मित्रत्रदृष्टान्तः ॥ इति सप्तमी कथा ॥ अथ धनावहश्रेष्ठिनः पुत्री जयन्तश्रीनामा स्वं भर्तारं विज्ञपयति, हे स्वामिन् ! कोऽयं वचनविवाद: ? भवद्भिः साकं४९ नवपरिणीतानामस्माकं वक्तुं न युक्तम्, परं किं कल्पितवार्तया विप्रतारयसि ? भवद्भिर्या याः कथाः कथितास्ताः सर्वा अपि कल्पिता एव, यथा ब्राह्मणपुत्र्या कल्पितवार्तया राज्ञो मनो रञ्जितम्, तथा त्वमप्यस्माकं कल्पितवार्ताभिर्मनोरञ्जनं करोषि । तस्मिन्नवसरे सर्वाभिरपि कथितम्, भो जयन्तश्रि ! तां कथां कथय, यां कथां श्रुत्वा प्रियतमो गृहे तिष्ठति । जयन्तश्री: कथयति, सावधानाः शृणुत ।