________________
११४ • सुलभ-चरित्राणि जिनदत्तश्रावकगृहे मुक्तः, स चातीवलक्षणोपेतः, एकदा केनचित्पल्लीपतिना तद्घोटकग्रहणार्थमेको निजसेवको मुक्तः, तेन क्षात्रं दत्त्वा स घोटको निष्कासितः, परन्तु स घोटको न चलति, उत्पथं न गच्छति, अनुभूतं राजमार्ग विनाऽन्यमार्गे न गच्छति । एतस्मिन्नवसरे श्रेष्ठिना ज्ञातम्, चौरो बद्धः, घोटकश्च गृहीतः, चौरोऽपि मुक्तः । एवं हे प्रियेऽहमपि स घोटक इव शुद्धं संयममार्ग मुक्त्वा चौरसदृशीभिर्भवतीभिराकृष्यमाण उत्पथे न गच्छामि ।
॥ इति तुरङ्गमदृष्टानतः ॥ षष्ठी स्त्री कनकश्रीः कथयति, हे प्रिय ! अतिहठग्रहणं न युक्तम्, आयतिर्विचारणीया ।४५ द्विजपुत्र इव रासभपुच्छं न ग्रहीतव्यम् । प्रभवेणोक्तम् कोऽयं द्विजः ? स्त्री कथयति।
एकस्मिन् कुलग्रामे एको द्विजपुत्रः, सोऽतीवमूर्खः तस्य माता कथयति, हे पुत्र ! यद् गृहीतं तन्न मोचनीयम्, एतत्पण्डितस्य लक्षणम् । तेन मूर्खेण जननीवचनं धारितम्, एकस्मिन् दिने कुम्भकारगृहीत एको रासभो नष्टः, पश्चाद्भूतेन कुम्भकारेण द्विजपुत्राय कथितम् । अहो एनं खरं गृहाण, मूर्खण रासभस्य पुच्छं गृहीतम् । रासभश्चरणलत्तां४६ ददाति, तथापि स पुच्छं न मुञ्चति, लोकैरुक्तं भो मूर्ख ! पुच्छं मुञ्च मुञ्च, तेनोक्तम्, मम मात्रा शिक्षा दत्तास्ति यद् गृहीतं तन्न मोचनीयम् । स मूर्यो ४७निजकदाग्रहेण कष्टं प्राप्तः ।
॥ इति विप्रपुत्रदृष्टान्तः ॥ जम्बूकुमारः कथयति, हे प्रिये ! एतत्सत्यं खरसदृश्यो भवत्यः, भवतीनामङ्गीकरणं खरपुच्छग्रहणतुल्यम्, लज्जास्थानेन परिणीतानां एतद्वाक्यं न युक्तम्, एतानि वचनानि स सहते यस्य स्थानं न भवति, यो विप्र इव ऋणधारी भवति स दासो भूत्वा तद्गृहे तिष्ठति, विप्रदृष्टान्तस्त्वयम्
____ कुशस्थलपुरे-एकः क्षत्रियः, तस्य गृहे एका तुरगी, तस्याः सेवार्थमेको नस्च रक्षितः, स ४८नरोऽहर्निशं तुरगीनिमित्तं यदशनादि तन्मध्यात्स्वयमपि प्रच्छन्नवृत्त्या भक्षयति । सा तुरगी कृशशरीरा जाता, क्रमेण च मरणं प्राप्य तस्मिन्नेव नगरे वेश्या जाता । स नस्च विप्रकुले समुत्पन्नः । एकस्मिने दिने तेन