________________
श्रीजम्बूकुमारचरित्रम् • ११३
अथ चतुर्थी कनकसेना कथयति
यदि मातङ्गीसदृशा वयं तर्हि कथं परिणीताः ? पानीयं पीत्वा गृहपृच्छा न कर्तव्या । हे स्वामिन् ! त्वमपि कौटुम्बिकवल्लोभेन पश्चात्तापं प्राप्स्यसि । दृष्टान्तश्चायम्
सुरपुरे एकः कौटुम्बिको वसति, तेन कृषिकर्म कृतम्, रात्रौ पक्षिणां पलायनार्थं शङ्खं वादयति, एकस्मिन् दिने तस्करा गोधनं गृहीत्वा तत्क्षेत्रपार्श्वे समागताः । शङ्खध्वनिं च श्रुत्वा भयातुराः पशून् मुक्त्वा गताः, स कौटुम्बिकः पशून् विक्रीय सुखी जातः, एवं वारत्रयं जातम् । एकदा तैस्तस्करैः तत्कौटुम्बिकवृत्तान्तो ज्ञातः, ते आगताः, कौटुम्बिको बद्धः, प्रहारेण च सरल: कृतः, एवं स्वामिन् ! अतिलोभाभिभूता दुःखं प्राप्नुवन्ति ।
॥ इति शङ्खधमककौटुम्बिकदृष्टान्तः ॥
जम्बूकुमारः कथयति ४३ अतिकामलालसा वानरवद् बन्धनं प्राप्नुवन्ति, वानरदृष्टान्तस्त्वयम्
एको वानरो ग्रीष्मकालं तृषातुरो जलभ्रान्त्या ४४ चिक्कणे जलरहिते कर्दमे पतितः, यथा यथा शरीरे कर्दमस्पर्शो जायते तथा तथा शीतलमङ्गं भवति, समग्रं शरीरं कर्दमेन लिप्तम्, तथापि तृषा न गता, सूर्यातपयोगेन कर्दमः शुष्कः, शरीरे पीडा जाता, तद्वत् हे प्रिये ! विषयसुखकर्दमेनाहं शरीरं न लिम्पयामि ।
॥ इति वानरदृष्टान्तः ॥
पञ्चमी स्त्री नभसेना कथयति
हे स्वामिन् ! अतिलोभो न कर्तव्यः, अतिलोभेन बुद्धिरन्धतां गता, तदुपरि सिद्धिबुद्ध्योर्दृष्टान्तो वाच्यः । जम्बूकुमारः कथयति, हे प्रिये ! बहुकथनेनापि अहं जात्यतुरङ्गम इवोत्पथेन न व्रजामि, जात्यतुरङ्गमदृष्टान्तस्त्रयम्
वसन्तपुरे नगरे जितशत्रुराजा, तस्य गृहे एकस्तुरङ्गमः, स घोटको