Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीनर्मदासुदरीचरित्रम् • १६९
४९ अधीत्य विविधतपसा शरीरशोषं विधायैकदा सा परिवारयुता चन्द्रपुरी समागता, महेश्वरदत्तोपाश्रये च स्थिता श्वश्रूश्वसुरभर्त्रादीनुपलक्ष्य धर्म श्रावयति, परं ते तां नोपलक्षयन्ति, अथैकदा तया महासत्या स्वरलक्षणादीनि ज्ञायन्ते, तत् श्रुत्वा महेश्वरेण चिन्तितम्, यद्येवंविधं वर्णनं शास्त्रमध्ये वर्त्तते, तदा नूनं मया सा निरपराधा प्रिया परित्यक्ता, इति चिन्ताकुलहृदयेन तेन पृष्टम्, हे महासति ! उक्तज्ञानयुक्ता 'मयैका निर्दोषा मम स्त्री परित्यक्ता । साऽथ कीदृशी भविष्यति । साध्व्योक्तम्, त्वं खेदं मा कुरु, सैवैषाहं नर्मदासुन्दर्यस्मीत्युक्त्वा ५° प्रतीत्यर्थं तया सर्वोऽपि सङ्केतितवृत्तान्तः कथितः, अथ तामुपलक्ष्य महेश्वरेण क्षमा याचिता, साध्व्योक्तम्- नैष तव दोषः मम कर्मणामेवायं दोषः, ततो महेश्वरऋषिदत्ते वैराग्यतो दीक्षां जगृहतुः, क्रमेण ते त्रयोऽप्यनशनं कृत्वा देवलोके गताः । भवेनैकेन च मोक्षं गमिष्यन्ति ।
2
॥ इति श्री शीलकुलके नर्मदासुन्दरी कथा सम्पूर्णा ॥
: अभ्यास :
प्रश्न. १. ऋद्रदत्तेन किदृशी स्त्री दृष्टा ?
२. सुन्दर्याः को दोहदो जात: ?
३. ऋषिदत्ता किं चिन्तयन्ती विलापं कर्त्तु लग्ना ?
४. पथि गच्छतः कस्योपरि तस्याः निष्ठीवनं पतितं तेन किं उक्तं ?
५. केन कारणेन महेश्वरदत्तस्य नर्मदोपरि शंका जाता ?
६. नर्मदासुन्दरी वने किदृशं पुच्चकार ?
७. वारांगनया केन छद्मना नर्मदासुन्दरी स्वगृहे आनीता ?
८. नर्मदया शीलरक्षार्थं किं कृतम् ? नर्मदा केन कर्मणा दुखिनी जाता ? ९. नर्मदासाध्व्यामहेश्वरदत्तस्य अग्रे किं व्याख्यातम् ?
१. ग्रैथिल्यं-नपुं.-गांडपए ॥ २. युवांश्चासौ जनश्च युवजन: (वि.पू.5.) । युवजनैः स्पृहणीयं युवजनस्पृहणीयं (तृ.त.पु.) युवजनस्पृहणीयं च तद् यौवनम् (5.धा.) युवजनस्पृहणीययौवनम् तस्य अवस्था (ष. त.) युवजनस्पृहणीययौवनावस्था ताम् । ३. मिथ्यात्वम् एव तिमिर: मिथ्यात्वतिमिरः । ( अवधा. पू. 5.) मिथ्यात्वतिमिरेण

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246