Book Title: Shripalmaynamrut Kavyam Author(s): Naychandrasagar Publisher: Agamoddharak Pratishthan View full book textPage 7
________________ काव्यम् श्रीपालमयणामृत 网靈蜜蜜蒙蒙蒙張靈靈靈靈靈靈靈靈靈靈靈靈靈靈驗激靈靈靈靈 तस्याभिधानं नीयते गुरुगौरवेन श्रीपाल-मयणानाम्ना । यद्यपि बहूनि-चारित्राणि वर्तन्ते संस्कृत-प्राकृत-गूर्जरभाषायां श्रीपाल-मयणयोः । तथापि संस्कृत-भाषायाः प्रारंभ-कालीन-अभ्यासूनां सुगम-बोधाय-स्फुरित-स्वान्तः-स्फुरणा-साफल्य च आदृतःप्रयत्नः सुविनीत-प्रवरेण मुनिश्रीनयचन्द्रसागरेण । सुरत-शिखरजी-महासंघ-प्रारंभ समय एव महाशुक्लपञ्चम्यां तिथौ श्रीमदागमोद्धारकाचार्यप्रवरधूराणामानन्दसागरसूरीश्वराणां दीक्षकशत वर्ष समापन वेलायां सुरत-गोपीपुरास्थित तेषामेवगुरुमूर्तिसमक्षं प्रतिज्ञातं तैः उक्तमुनीश्वरैः यत् अस्मिन्सुसंघे ममैका प्रतिज्ञा यत् आचाम्लतपःपुरस्सरेण श्रीपाल-मयणा-चरित्रं पद्यात्मकं संरचितव्यम् । अनेकविधविनवातजातान्तरायेऽपि स्व-प्रतिज्ञापालनैकरसजोत्साहेन एकशत-चत्त्वारिंशत् दिनमाने सुदीर्घकालीने सफले सङ्के साफल्यं वरीवृत्तमिति प्रशस्यतामर्हति मुनिवरप्रयासः । प्रकाशनवर्त्मनि अवतीर्यमानमिदं चरित्रं अनेकेषामात्मनां नवपदवर्त्मन अवतरणाय प्रबल-परिबलरूपं प्राप्स्यतीतिमदीयो मतः । मा स्म भूयादसौ मुनेः प्रयत्नः अत्रैव विरामभाग् । किन्तु वृद्धि प्राप्यमानीभूय अनेक-ग्रंथानां शृङ्खलानिर्माणाय अविरामी भवतु इति आशान्वितो-अहम् हेमचन्द्र-सागरः । X For Private & Personal Use Only ___Jain Education ww.jainelibrary.org a l 2010-05Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 146