________________
हुशलतानिरोधः कुशलानामुदीरणं, विविक्तचर्या "आरामुज्जाणाइस, यीपसुपंडगविवज्जियं ठाण। फलयाईणय गहणं, तह मणि एसणिज्जाणं ॥१॥” एतद्वाह्यं तपो भवति लौकिकैरपि आसेव्यमानं ज्ञायते इति बाह्यम्, विपरीतग्राहेण कुतीथिकैरपि क्रियते इति बाह्यतपः ५॥ अथाभ्यन्तरं तपो यथा “ पायच्छित्तं १ विणओ २, वेयावचं ३ तहेव सज्झाओ ४। झाणं ५ उस्सग्गो ६ वि य, अभितरो तवो होइ ॥६॥” तथा चौपपातिकेऽपि “से कि त अन्धितरए तवे ?२ छबिहे पं० त० पायच्छित्तं १ विणो २ वेयावच्चं ३ सज्झाओ ४ झाणं ५ विउसम्गो ६” 'पायच्छित्त' अतिचारविशुद्धिः सा चवन्दनादिना विनयेन विधीयते, इत्यत आह-वि० कर्मविनयनहेतुापारविशेषः, तद्वानेव च वैयावृत्त्ये प्रवर्त्तते इत्यत आह-वे० भक्कादिभिरुषष्टम्भः वैयावृत्त्यान्तराले च स्वाध्यायो विधेयः इत्यत आह-स० शोभनो मर्यादया पाठः, तत्र च ध्यानं भवतीत्याह-शा० शुभध्यानं, शुभध्यानादेव हेयत्यागो भवतीत्यत आह-विउ० व्युत्सर्गः, “से कि तं पायच्छित्ते ? २ दसविहे पं० त० आलोयणारिहे १ | पडिक्कमणारिहे २ तदुभयारिहे ३ विवेगारिहे ४ विउस्सग्गारिहे ५ तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवठ्ठप्पारिहे ९ पारंचियारिहे १० से तं पायच्छित्ते।" आलोचनां-गुरुनिवेदनां विशुद्धये यति भिक्षाचर्यायतिचारजातं तदालोचनाह तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनाहमित्युक्तम्, तस्या एव तपोरूपत्वादिति, एक्मन्यान्यपि, नवरं प्रतिक्रमणं-मिथ्यादुष्कृतं २, तदुभयं-आलोचना प्रतिक्रमणस्वभावं ३, विवेको-शृद्धभक्तादिविवेचनं ४, व्युत्सर्गः-कायोत्सर्गः ५, तपो-निर्विकृतिकादिकं ६, छेदो-दिनपञ्चकादिक्रमेण पर्यायछेदनं ७, मूल-पुनव्रतोपस्थापनं ८, अनवस्थाप्यं अचरिततपोविशेषस्य व्रतेष्वनवस्थापनम् ९, पाराश्चिक-तपोविशेषेणैवातिचारपारगमनमिति १०, “से कि त विणए ? विणर