________________
गच्छा चार
वृत्तिः
॥९८॥
KIMAGEAAAAAA
विवज्जेज्जा" इत्यादि, 'उप्पण्णे पुण 'ति पुनः शब्दस्याप्यर्थत्वात , उत्पन्नेऽपि दीक्षान्तकादिके कार्ये-प्रयोजने 'विहिणा | उत्ति तुरेवकारार्थखाद्विधिविधिमतोरभेदविवक्षणाच्च विधिनैव-विधिमतैव आगमोक्तविधिज्ञेनैवेत्यर्थः नत्वागमविध्यज्ञेन तस्य | मार्गाऽगणनेनैव निषेधात् । यत्र गच्छे न क्रियते-न विधीयते । हे गौतम ! स गच्छ: स्यादिति शेष इति । यच्च श्रीवहत्कस्पषष्ठोद्देशके "निग्गंथस्स य अहे पादसि खाणू वा कंटगे वा हीरे वा सकरे वा परियावज्जेज्जा, तं च निगये नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ १। निग्गंथस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निम्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ २। निग्गंधीए अहे पादंसि खाणू वा कंटए वा हीरए वा सक्करे वा परियावज्जेजा, तं च निग्गंथी नो संचाइज्जा नीहरित्तए वा विसोहितए वा, तं निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ ३ । निग्गथीए अच्छिसि पाणे वा बीए वा रए वा जाव निग्गथे नीहरमाणे वा नाइक्कमइ ४ । अस्य व्याख्या--निर्मन्थस्य चशब्दो वाक्योपन्यासे अधः पादे-पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा पर्यापतेत्-अनुपविशेत् , तच्च कण्टकादिकं निग्रन्थो न शक्नुयात् नीह वा-निष्कायितुं विशोधयितुं वा-निःशेषमपनेतं तत निर्ग्रन्थी नोहरंती वा विशोधयन्ती वा नातिकामति आज्ञामिति गम्यते इति प्रथमसूत्रम् ॥ द्वितीयसूत्रे निग्रंन्यस्याक्षिण-लोचने प्राणा वा-मशकादयः सूक्ष्माः बीजानि वा सूक्ष्माणि श्यामाकादीनि रजो वा-सचित्तचित्तं वा पृथिवीरजः पर्यापतेत् , तच्च प्राणादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुमित्यादि प्राग्वत् २॥ तृतीयचतुर्थसूत्रे निर्ग्रन्थीविषये एवमेव व्याख्यातव्य इति सूत्रचतुष्टयार्थ इत्यायुक्तं तत्त्वत्यन्तापवाद
॥९८॥