Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
श्रीविमलप्रभसूरिः १, श्रीपरमानन्दसूरिगुरुराजः२। श्रीपञ्च तिलकसरि ३-गणतिलकः सोमतिलकगुरु ४॥३२॥ श्रीसोमप्रभसूरे, पट्टे श्री समितिलकमूरिन्द्राः। तेषां त्रयो विनेया-स्तत्र श्रीचन्द्रशेखरः प्रथमः ॥३३॥ मूरिजयानन्दोऽन्य स्तृतीयका देवसुन्दरा गुरवः । श्रीसोमतिलकसूरेस्त एव पट्टाम्बरादित्याः॥ ३४॥ तेषां च पश्च शिष्याः, प्रथमे श्रीज्ञानसागरा गुरवः । कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ॥ ३५॥ तुर्या अहार्यवीर्या, गुरवः श्रीसोमसुन्दरप्रभवः। आसंश्च पञ्चमा अपि, गुरवः श्रीसाधुरत्नाहाः ॥ ३६॥ श्रीदेवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणीन्द्रः। अभवन् युगप्रधाना, शिष्यारतेषां च पश्चैते ॥ ३७॥ श्रीमुनिसुन्दरसूरिः १, श्रीजयचन्द्रो २ गुरुर्गरिमधाम । श्रीभुवनसुन्दरगुरु ३ जिनसुन्दरमूरि ४ जिनकीर्ती ५॥३८॥ श्रीसोमसुन्दरगुरोः, पट्टे मुनिसुन्दरो युगप्रवरः। तत्पमुकुटरत्नं, सरत्नेशेखरगुरूत्तंसः॥३९॥ श्राद्धविधिसूत्रवृपया-धनेकसद्ग्रन्थनिर्मितिपटिष्टः । ४क्ष्मीसागरमरि-स्तत्पट्टमण्डनमतिगरिष्ठः॥ ४०॥ आसीत्तदीयपट्टे, गुरुर्गुणी सुमतिसाधुसूरीन्द्रः। श्रीहेम विमलमूरिस्तदीयपट्टे गुरुः समभूत् ॥ ४१॥ अथ दुःषमोत्यदोषात् , प्रमादवशचेतसो ममत्वभृतः। अभवन् मुनयः प्रायः, स्वाचाराचरणशैथिल्याः॥ ४२ ॥ किञ्चिभिरीक्ष्याप्यसमअसं तत् ,शास्त्रार्थशून्यैः प्रतिभोज्झितैश्च । लुकाधनादेयमतान्धकूपेऽप्यन्धैरिवोच्चैः पतितं प्रभूतैः॥४३ इतश्च । श्रीहेमविमल मूरि-दूरीकृतकल्मषः समूरिगुणम् । ज्ञात्वा योग्यं तूर्ण, धर्मस्याभ्युदयसंसिद्धथै ॥४४॥ सौभाग्यभाग्यपूर्ण, संवेगतरङ्गरानीरनिधिम् । आनन्दविमलमूरिं, स्वपट्टे स्थापयामास ॥४५॥ युग्मम् ॥

Page Navigation
1 ... 311 312 313 314 315 316