Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 311
________________ निजगतिनिर्जितभद्रा, कृतभद्रः श्रीगणी यशोभद्रः । तत्प? श्रीमन्तौ सम्भृतिविजयसुभद्रबाहुगुरू ॥ ४॥ श्रुतकेवलीह चरमः, स्थूलीभद्रस्तयोविनेयोऽभूत् । शिष्योत्तमौ तदीयौ, मूरिमहागिरिमुहस्तिगुरू ॥५॥ जिनकल्पसुपरिकर्मः प्रथमः प्रथयान्वितः प्रथयतिस्म । श्रेणिकतः प्रति सम्पति-नृपं द्वितीयः स्म बोधयति ॥६॥ तदनु च मुहस्तिशिष्यौ, कोटिककाकन्दकावजायेताम् । सुस्थितसुप्रतिबुद्धौ, कौटिकगच्छस्ततः समभूत् ॥७॥ तत्रेन्द्रदिन्नसूरि-भगवान् श्रदिन्नसंज्ञसूरीन्द्रः । तस्य पट्टे सिंहगिरिगिरिरिव धीरो गिरिगभीरः॥८॥ समजनि वर्जस्वामी, जृम्भकदेवार्पितस्फुरद्विद्यः । बाल्येऽपि जातजाति-स्मृतिः प्रभुश्वरमदशपूर्वी ॥९॥ श्रीवज्रसेनसंज्ञस्तत्पट्टपूर्वाद्रिचूलिकादित्यः। मूलं चान्द्रकुलस्या-जनि च ततचन्द्रसूरिगुरुः ॥१०॥ पूर्वगतश्रुतजलधि-स्तस्मात्सामन्तभद्रसूरीन्द्रः । श्रीमांश्च देवमूरिस्तदीयपट्टेऽभवद् वृद्धः ॥११॥ प्रद्योतनाभिधान-स्ततोऽपि सूरीन्द्रमानदेवाख्यः । शान्तिस्तवेन मारिं, यो जहे देवताभ्यर्च्यः॥१२॥ श्रीमानतुङ्गमरिः कर्त्ता भक्तामरस्य गणभर्ता । श्रीमान् वोरः मूरि-स्ततोऽपि जयदेवसूरीन्द्रः॥ १३ ॥ श्रीदेवानन्दगुरु-विक्रममूरिगुरुश्च नरसिंहः । बोधितहिंसकयक्षः क्षपणकजेता सैंमुद्रोऽय ॥१४॥ हरिभद्रमित्रमभवत् , सूरिः पुनरेव मानदेवगुरुः । विधंघप्रभश्च मूरिस्तस्मात् सूरिजयानन्दः॥१५॥ श्रीमविप्रभगुरुर्गरिमागारं गुरुयशोदेवः । सद्युम्नः प्रद्युम्नाभिधश्च सूरिस्ततोऽप्यासीत् ॥ १६ ॥ विहितोपधानवाच्य-ग्रन्थस्तस्माच्च मौनदेवाख्यः । सूरिः समजनि भूयो, मानवदेवाचितः सततम् ॥१७॥

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316