Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
गच्छा
चार
वाक्यालङ्कारे पठित्वा च-मूत्रतोऽर्थतश्च विधिनैवाधीत्य भिक्षवो भिक्षुण्यश्च आत्मनो हितमिच्छन्तो यद्ययात्र भणितं तत्तथा कुर्वन्त्विति । विषमाक्षरेति गाथाछन्दः॥१३७॥ इति श्रीमत्तपागच्छनभोनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपण्डितश्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साध्वीस्वरूपनिरूपणाधिकारस्तृतीयः समाप्तः ॥ ३॥ तत्समाप्तौ च समाप्तेयं श्रीगच्छाचारप्रकीर्णकटीका ॥
॥१५॥
प्रायः स्वकीयोदितमप्यतादृशं, सर्वाङ्गभाजां जगतीह रोचते। इयं मदुक्तिस्तु ममैव नो तया, कथं परेषां रुचये भविष्यति? नाभूवृद्धकृता वृत्ति-रस्यादर्शास्तु भूरिशः । तऽथाप्यस्ति गुरूपास्तिः, समस्त स्वस्तिदाऽश्मनः ॥ २॥ यदत्र मतिवैगुण्याद्, ग्रन्थानभ्यासतस्तथा । भ्रमादा विवृतं सार्वाऽऽ-गमेनामा विरोधभाक् ॥ ३ ॥ विभक्त्यादिविरुद्धञ्च, मिथ्यादुष्कृतमस्तु तत् । शोधयन्तु च तत्वज्ञाः, कृत्वा तत्र घृणां मयि ॥ ४ ॥ युग्मम् ॥ विचारोपनिषद्भेदसमुच्चयचिकीर्षया । गच्छाचाराभिधग्रन्थ-वृत्तिनिर्मितवानहम् ॥५॥
॥ अथ प्रशस्तिर्लिख्यते ॥ प्रकटितजगदानन्दः सुरतरुमणिसुरभिमहिमरमणीयः । प्रगते हितप्रणेता, शासननेता जयति वीरः ॥१॥ तत्पट्टोदयभानु-गणी सुधर्मा यथार्थनामाऽभूत् । बोधितशरशतचौरः श्रीजम्बूंः केवली चरमः ॥२॥ श्रीमान् प्रभस्वामी, गणनाथो गुणमणिसलिलनाथः। शय्यम्भवोऽपि मूरि-भणकपिता समजनिष्ट ततः॥३॥
॥१५॥

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316