Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
गच्छा
चार
॥१५॥
धन्यानगारसंकाशास्तपोभिर्दुस्तपैशम् । स्थूलभद्रोपमा ब्रह्म-चर्यवर्यगुणैरपि ॥ ४६॥ . . श्रीमदानन्दविमल-प्रभवः शासनाद् गुरोः । शश्वत् शुद्धां क्रियां कर्तु-मकुर्वन्निश्चलं मनः॥४७॥ युग्मम् ॥ अथ कुमार्गपतजनतोद्धृती, विनयभावमवाप्य सहायकम् । सविनय नयनिर्मलमानसं, मुदमधाद्विशदां गुरुपुङ्गवः ॥४८॥ श्रीविनयभावसंज्ञै-विज्ञवरैः संयुताः सहायैस्ते । समतासहिता हित्वा, वस्त्रादिपरिग्रहे ममताम् ॥ ४९॥ श्रीविक्रमनृपकालाद् भुजगजशरशशि १५८२ मितेगतेवर्षे । चक्रुश्चरणोद्धरण, शरणं संवेगवेगवताम् ॥५०॥ युग्मम् ॥ तदा च तेषां जगदुत्तमानां, संविग्नतासाररसप्रसिक्तः। म्लानिं गतोऽपीह चरित्रधर्मकल्पद्रुमः पल्लवितो बभूव ॥५१॥ स गुरुगरिमौदार्य-स्थैर्यादिगुणसेवधिः। निर्ममत्वः शरीरेऽपि, तपस्तेपे सुदुस्तपम् ॥ ५२ ।। अथ तच्छूयतां किश्चि-दालोच्य स्वकपाप्मनः । कृतवानौपवासाणामशीत्याभ्यधिकं शतम् ॥ ५३॥ अईदादिपदध्यायी, विंशतिस्थानकं तपः । निर्विकारंश्चकारैष, चतुःशतचतुर्थकैः ॥ ५४॥ चक्रे पुनस्तपस्त-दरिष्टषष्ठेश्चतुःशतप्रमितेः। विंशतिषष्ठानि ततो, विहरजिनपान् समाश्रित्य ॥ ५५॥ तोधिपकीरविभोः, पष्ठानि नवेक्षणेक्षण २२९ मितानि । पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि ॥५६॥ युग्मम्॥ द्वादशानि प्रभुः पञ्च, चक्रे प्रथमकर्मणः। तानि पञ्चान्तरायस्य, नवैव दशमानि तु ॥ ५७॥ दर्शनावरणस्यापि, मोहनीयस्य कर्मणः । अष्टारिंशतिसङ्ख्यानि, विशिष्टाष्टमकानि च ॥५८॥ युग्मम् ॥ अष्टमदशमान्येवं, वेद्ये गोत्रे तथायुपि बहूनि । कृतवान् भगवान्नाम्नो, न च जज्ञे कर्मणस्तु तपः ॥१९॥
३१५

Page Navigation
1 ... 312 313 314 315 316