Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 216
________________ गच्छा चार ॥१०४॥ मित्यपि शब्दार्थः, कारणं विना साधुभिः परिभुज्यते हे गौतम ! स कीदृशो गच्छ: १ न कीदृशोऽपीति, नन्वत्र आर्यालब्धत्वं पतद्ग्रहाद्युपकरणस्य कथं सम्भवति, आर्याणां गृहस्थसकाशात् स्वयं वस्त्रपात्रग्रहणस्यैव निषेधात् , ग्रहणे च प्रायश्चित्तमनेके दोषाश्च । उक्तश्च-यतिजीतकल्पप्रकरणे “गुरुउबहिअपडिलेहे, छप्पइअअसोहिकमि तदग्गहणे । लहुया गुरुमजाणं, सयमेव य वत्थपायगहे ॥ १॥" अस्याः किञ्चिदूनपश्चार्द्धत्तिलेशो यथा-"आर्याणां संयतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः, यतः-संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणेऽनेकदोषाः सम्भवन्ति । तथाहि-संयती गृहस्थादत्राणि गृहन्तो दृष्ट्वा कोऽप्यभिनवश्राद्धो मिथ्यात्वं गच्छेत् , निर्ग्रन्थ्योऽपि भाटिं गृह्णन्तीति शङ्कते वा, गृहस्थो वा वस्त्राणि दत्वा मैथुनमवभाषेत, प्रतिषिद्धे चैषा मे वस्त्राणि गृहीत्वा उक्तं न करोतीत्युड्डाई कुर्यात् , स्त्री च स्वभावेनाल्पसचा ततो येन तेन वा वस्त्रादिनाऽल्पेनापि लोभ्येत लोभिता चाकार्यमपि करोति, बहुमोहा च स्त्री, तत: पुरुषैः सह संलापं कुर्वन्त्या वस्त्राणि गृह्णन्त्याच तस्या पुरुषसम्पर्कतो मोहो दीप्यते, उदाररूपां वा संयतीं दृष्ट्वा कार्मणादिना काश्चिद्वशी कुर्यात्, वशीकृता च चारित्रविराधनां करोति, तस्मान्निग्रन्थीभिगृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि, किन्तु तासां तानि गणधरेण दातव्यानि । तत्रायं विधिःसंयती प्रायोग्यमुपधिमुत्पाद्य सप्तदिनानि स्थापयति, ततः कल्पं कृत्वा स्थविरं स्थविरां वा परिधापयति, यदि नास्ति विकारस्ततः सुन्दरं, एवं (परीक्षां कृत्वा ददाति) परीक्षामकृखा यदि ददाति तदा चतुर्गुरुक, तश्च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति, गणिनी च संयतीनां विधिना ददाति । अथाचार्यः स्वयं तासां ददाति तदा चतुर्गुरुकम्, यतः काचिन्मन्दधर्मा भणेदस्याश्चोक्षतरं दत्तं एषाऽस्येष्टा यौवनस्था च एवमस्थाने स्थापयति तस्मादाचार्येण प्रवर्त्तिन्या एव दातव्यमित्यादि।

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316