Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
ततश्च संसारपर्यटनमिति, उक्तं च-दशवकालिकसूत्रे-" विभृसावत्ति भिख्खु, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥१॥ विभूसावत्तियं चेयं, बुद्धा मन्नति तारिसं । सावज्जबहुलं चेय, नेयं ताईहिं सेवियं ॥२॥" तथोज्ज्वलवेषेण ब्रह्मविनाशोऽपि सम्भवी, उज्ज्वलवासः परिधानभुषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः ? ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्य ब्रह्मचर्यादपभ्रश्यति । अथ यदि कश्चित् तत्त्ववेदितया संयमविषये निष्पकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति, तथाऽप्युज्जवलवेपतो लोकेन सोऽस्थाने स्थाप्यते, यथा-नूनमयं कामी, कथमन्यथा आत्मानमित्थं भूषयति ? न खलु अकामी मण्डनमियो भवतीति । तुः-पुनर्यो गच्छश्चारित्रगुणैरुज्जवलो निरतिचारस्तमेव गच्छ सेवेत, संसारक्षयहेतुत्वात् , तुरेवार्थ, इयं गाथा श्रीमहानिशीथपञ्चमाध्ययनेऽप्यस्तीति । गाथाछन्दः॥ १०२॥ जत्थय मुणिणो कयविक्कयाइ कुवंति संजमभट्ठा। तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा॥१०३॥
व्याख्या-यत्र गणे मुनयो-द्रव्यसाधका क्रय-मूल्येन वस्त्रपात्रौषधशिष्यादिग्रहण विक्रय च-मूल्येनान्येषां वस्त्रपात्रादिकार्पणं कुर्वन्ति, च शब्दादन्यैः कारयन्ति अनुमोदयन्ति च. किम्भता मुनयः? संयमभ्रष्टा:-दूरीकृतचारित्रगुणाः, गुणसागरेति गौतमामन्त्रणं, ते गच्छं विषमिव-हालाहलमिव दरतः परिहरेत सन्मुनिः, अत्र विषस्योपमा देशसाम्ये, यतो विषादेकमरणं भवति संयमभ्रष्टगच्छावनंतानि जन्ममरणानि भवन्तीति । गाथाछन्दः॥ १०३ ॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316