Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 287
________________ KHPANCHAYANACHAIRPERSONAKSHYANE एवमग्रेतनगाथात्रिकेऽपोति । गाथाछन्दः ॥ ११९॥ अजयणाए पकुवंति, पाहुणगाण अवच्छला। चित्तलयाणि अ सेवंते, चित्ता रयहरणे तहा ॥१२०॥ व्याख्या-'अजय०' अयतनया-र्यायशोधनेन प्रकुर्वन्ति गमनादिकमिति शेषः । तथा प्राघूर्णिकानां-ग्रामान्तराद्यागतसाध्वीनां अवत्सला-निर्दोषशुभानपानादिना भक्तिं न कुर्वन्तीत्यर्थः । तथा चित्रलानि सूत्रे कात्ययः स्वार्थिकः प्राकृतलक्षणवशात् चकार:-समुच्चये विचित्रचित्राणि वस्त्राणीतिशेषः, सेवन्ते-परिदधति तथा चित्राणि-पञ्चवर्णगुल्लादिरचनोपेतानि रजोहरणानि सेवन्ते-धारयन्ति स्वच्छन्दाः श्रमण्य इति । विषमाक्षरेति गाथाछन्दः ॥ १२० ॥ | गइविन्भमाइएहिं, आगारविगार तह पणासंति। जह वुडगाण मोहो, समुईरइ किं तु तरुणाणं ॥१२॥ व्याख्या-'गइवि०' स्वच्छन्दाः श्रमण्यो गतिविभ्रमादिभिः 'आगारविगार'त्ति अत्र विभक्तिलोपः प्राकृतत्वात् तत आकारं-मुखनयनस्तनाद्याकृति विकारं च-मुखनयनादिविकृति यदा आकारस्य-स्वाभाविकाकृतेर्विकारो-विकृतिस्तं तथा प्रकाशयन्ति-प्रकटयन्ति, यथा वृद्धाना-अपेर्गम्यमानत्वात् स्थविराणामपि मोहा-कामानुरागः समुदीर्यते-समुत्पद्यते किं पुनस्तरुणानां तेषां सुतरां समुत्पद्यत एवेत्यर्थः, तुः-पुनरर्थे इति । गाथाछन्दः॥१२१॥ बहुसो उच्छोलिंती, मुहनयणे हत्थपायकक्खाओ। गिण्हेश् रागमंडल, सोदिअ तहय कवटे॥१२२॥ व्याख्या-'बहुसो' मुखनयनानि हस्तपादकक्षाश्च बहुशो-वारंवारं उच्छोळयन्ति-प्रक्षालयन्ति स्वच्छन्दाः श्रम

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316