________________
KHPANCHAYANACHAIRPERSONAKSHYANE
एवमग्रेतनगाथात्रिकेऽपोति । गाथाछन्दः ॥ ११९॥ अजयणाए पकुवंति, पाहुणगाण अवच्छला। चित्तलयाणि अ सेवंते, चित्ता रयहरणे तहा ॥१२०॥
व्याख्या-'अजय०' अयतनया-र्यायशोधनेन प्रकुर्वन्ति गमनादिकमिति शेषः । तथा प्राघूर्णिकानां-ग्रामान्तराद्यागतसाध्वीनां अवत्सला-निर्दोषशुभानपानादिना भक्तिं न कुर्वन्तीत्यर्थः । तथा चित्रलानि सूत्रे कात्ययः स्वार्थिकः प्राकृतलक्षणवशात् चकार:-समुच्चये विचित्रचित्राणि वस्त्राणीतिशेषः, सेवन्ते-परिदधति तथा चित्राणि-पञ्चवर्णगुल्लादिरचनोपेतानि रजोहरणानि सेवन्ते-धारयन्ति स्वच्छन्दाः श्रमण्य इति । विषमाक्षरेति गाथाछन्दः ॥ १२० ॥ | गइविन्भमाइएहिं, आगारविगार तह पणासंति। जह वुडगाण मोहो, समुईरइ किं तु तरुणाणं ॥१२॥
व्याख्या-'गइवि०' स्वच्छन्दाः श्रमण्यो गतिविभ्रमादिभिः 'आगारविगार'त्ति अत्र विभक्तिलोपः प्राकृतत्वात् तत आकारं-मुखनयनस्तनाद्याकृति विकारं च-मुखनयनादिविकृति यदा आकारस्य-स्वाभाविकाकृतेर्विकारो-विकृतिस्तं तथा प्रकाशयन्ति-प्रकटयन्ति, यथा वृद्धाना-अपेर्गम्यमानत्वात् स्थविराणामपि मोहा-कामानुरागः समुदीर्यते-समुत्पद्यते किं पुनस्तरुणानां तेषां सुतरां समुत्पद्यत एवेत्यर्थः, तुः-पुनरर्थे इति । गाथाछन्दः॥१२१॥ बहुसो उच्छोलिंती, मुहनयणे हत्थपायकक्खाओ। गिण्हेश् रागमंडल, सोदिअ तहय कवटे॥१२२॥
व्याख्या-'बहुसो' मुखनयनानि हस्तपादकक्षाश्च बहुशो-वारंवारं उच्छोळयन्ति-प्रक्षालयन्ति स्वच्छन्दाः श्रम