________________
गच्छा
चार
॥१३९॥
गच्छवरः-सकलगच्छप्रधानः स्यादिति । गाथाछन्दः॥११७॥ अथ स्वच्छन्दाः श्रमण्यो यत्कुर्वन्ति तद्गाथापञ्चकेन प्रकटपतिजो जत्तो वा जाओ,नालोअइ दिवसपक्खिअंवावि।सच्छंदा समणीओ, मयहरिआए नठायंति॥११८
व्याख्या-'जो जत्तो०' यो यावान् वा अतीचार इति शेषः जातः-उत्पन्नः तंतया दैवसिकं पाक्षिकं वाऽपि शब्दा| चातुर्मासिकं सांवत्सरिकं वाऽतिचारं नालोचयन्ति, अत्र वचनव्यत्ययः प्राकृतत्वात् स्वेच्छाचारिणः श्रमण्यः तथा महत्त- 1 | रिकाया-मुख्यसाध्व्या आज्ञायामिति शेषः, न तिष्ठन्तीति । गाथाछन्दः॥ ११८॥ विटलिआणि पउंजति, गिलाणसेहीण नेव तप्पंति। अणगाढे आगाढं, करति आगाढि अणगाढं॥११९॥ _व्याख्या-' विटलि' विंटलिकानि-निमित्तादीनि, विटलं-निमित्तादीत्योपनियुक्तिकृत्यादौ व्याख्यानात् तानि प्रयुअन्ते, अत्रापि वचनव्यत्ययः प्राकृतत्वादेव, तथा ग्लानाश्च-रोगिण्यः शैक्ष्यश्च-नवदीक्षिता इति द्वंद्वोऽतस्ताः नैव तर्पयन्तिऔषधभेषजवस्त्रपात्रज्ञानदानादिना नैव प्रीणयन्तीत्यर्थः । अत्र सूत्रे 'क्वचिद् द्वितीयादे' (८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने पष्ठी । यथा 'सीमाधरस्स बंदे 'त्ति तथा आगाह-अवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाढं अनागाढं तस्मिन् अनागाढे कार्य इति शेषः। आगाढं-अवश्यकर्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः । तथा आगाढे-अवश्यकर्तव्ये कार्ये अनागाढं कार्य येन कृतेन विनापि सरति तत्कार्यं कुर्वन्तीत्यर्थः । अथवा अनागाढयोगाऽनुष्टाने वर्तमाने आगाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठाने अनागाढयोगानुष्ठानं कुर्वन्ति स्वच्छन्दाः श्रमप्य इति कर्तृपदं पूर्वगाथात आकर्षणीयम् ,
॥१३९॥