SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ANSAANSHAKRAINEKHABANARAIN लपुरुषाणामग्रे धर्मकयां न कथयन्ति ? उच्यते-यथा साधवः केवलानां स्त्रीणां धर्मकयां न कथयन्ति, तथा साध्व्योऽपि | केवलानां पुरुषाणामग्रे धर्मकयां न कथयन्ति, यत उक्तं श्रीउत्तराध्ययने-“नो इत्यीणं कह कहित्ता हवइ से निग्गथे, तं | कहमिति ? आयरियाह-निमयस्स खलु इत्थीणं कई कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा F] समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिय वा रोगायकं भवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निगथे नो इत्थीणं कह कहेज्ज"त्ति 'नो इत्थीणं 'ति नो स्त्रीणां एकाकिनीनां कथां कथयिता भवति, यथेदं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसमाधिस्थानं साधनामुक्तं, तथा साध्वीनामप्येतत् युज्यते, | तच्च साध्वीनां पुरुषाणामेव केवलानां कथाया अकथने भवतीति तथा 'स्थानाङ्गेऽपि 'नो इत्थीणं कई कहेत्ता हवइ' इदं नवब्रह्मचर्यगुप्तीनां मध्ये द्वितीयगुप्तिसूत्र, अस्य वृत्तिः-'नो स्त्रीणां केवलानामिति गम्यते, धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपामित्यादि । यथा च द्वितीयां गुप्ति साधवः पालयन्ति, तथा साध्व्योऽपि पालयन्ति, सा च साध्वीनां पुरुषाणामेव केवलानामग्रे कथाया अकथने भवतीत्यतः पोच्यते, न केवलपुरुषाणां साध्व्यो धर्मकयां कथयन्तीति ।गाथाछन्दः॥११६॥ अथ यथा श्रमणीभिर्गच्छस्य प्रधानत्वं स्यात् तथा दर्शयति| जत्थ य समणीण-मसंखडाइ गच्छंमि नेव जायंति।तं गच्छं गच्छवरं, गिहत्थभासा उ नो जत्थ।११७। व्याख्या-'जत्य य ' यत्र च गणे श्रमणीनां परस्परमसंखडानि-कलहा नैव जायन्ते-नैवोत्पद्यन्ते, तथा यत्र गणे गृहस्थानां भाषाः ममा आई बापा भाइ बाइ इत्यादिका, अथवा गृहस्थैः सह सावधभाषा: गृहस्यभाषास्ता नोच्यन्ते, स गच्छा मHIVERSACHIVEHIC HIVEHINGS
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy