SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१४०॥ ण्यस्तथा रागमण्डलं-वसन्तादिरागसमृहं अग्रेतन तय 'त्ति पदस्य 'गेण्डइ 'त्ति पदेन सह सम्बन्धात् 'तय गेण्हेइ 'त्ति तथैव गृहन्ति सथैव कुर्वन्तीत्यर्थः, यथा 'कवढे 'त्ति कल्पस्था:-समयपरिभाषया बालकास्तेषामपि श्रोत्रेन्द्रिय-श्रवणेन्द्रिय गिण्हेइत्ति क्रियाया अत्रापि सम्बन्धात् गृहन्ति-हरन्तीत्यर्थः, अथवा कारणे कार्योपचारात् रागो-रागोत्पत्तिहेतुर्वस्तु यथा मुखे शङ्गारगीतादि नयनेऽअनादि मस्तके सीमन्तादि ललाटे तिलकादि कण्ठे कुसुममालादि अधरे ताम्बूलरङ्गादि शरीरे चन्दनलेपादि तस्य मण्डलं समूह तथा गृहन्ति यथा बालानामपि श्रोत्रेन्द्रियमुपलक्षणत्वादन्यदिन्द्रियचतुष्कं मनश्च गृहन्ति हरन्ति, अत्रोत्तरार्द्ध पाठान्तरं यथा-'गेष्हणरामणमंडणभोयंति व ता उ कब्बडे' अस्यार्थः-'गृहस्थवालकानां ग्रहणं कुर्वन्ति रामणं वा-क्रीडनं मण्डनं वा प्रसाधनं यदिवा ताः कल्पस्थान-गृहस्थबालकान् भोजयन्ति, अत्रापि गाथायां विभक्तिलोपविभक्तिव्यत्ययवचनव्यत्ययाः प्राकृतत्वादेवेति । गाथाछन्दः॥ १२१ ॥॥ अथ साध्वीनां शयनविधि दर्शयन्नाहजत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुअइ। गोअम ! तं गच्छवरं, वरनाणचरित्तआहारं॥१२३॥ व्याख्या-'जत्थ य०' यत्र च गणे स्थविरा ततस्तरुणी पुनः स्थविरा ततस्तरुणीत्येवं अंतरिताः साध्व्यः स्वपन्तीति भावार्थः। तरुणीनां निरन्तरं शयने हि परस्परजवाकरस्तनादिस्पर्शनेन पूर्वक्रीडितस्मरणादिदोषः स्यात् अतः स्थविरान्तरिता एव ताः शेरते, हे गौतम ! वरज्ञानचारित्राधारं तं गच्छवरं जानीहीति । गाथाछन्दः॥ १२३ ॥ अथ या आर्या न भवन्ति, ताः गाथात्रयेण दर्शयति ॥१४॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy