________________
| धोयंति कंठिआओ, पोअंती तह यदिति पोत्ताणि। गिहिकजचितंगाओ,नहु अजा गोअमा! ताओ॥१२४॥
व्याख्या-'धोयंति०' याः कष्ठिका-गलप्रदेशान् धोवन्ति-नीरेण क्षालयन्ति तथा 'पोयंति 'त्ति मुक्ताफलविद्रुमादीनि प्रोतयन्ति गृहस्थानामिति गम्यते, तथा च "पोत्ताणि 'त्ति बालकाद्यर्थ वस्त्राणि ददति चकारादौषधजटिकादिकमपि ददति, अथवा 'पोत्ताणि 'त्ति जलाीकृतवस्त्राणि ददति मलस्फेटनाय शरीरे घर्पयन्तीत्यर्थः, तथा गृहिकार्यचिन्तिकाःअगारिकृत्यकरणतत्पराः, हे इन्द्रभृते ! ता आर्या न हु-नैव भवन्तीति । गाथाछन्दः॥१२४॥ खरघोडाइट्ठाणे, वयंति ते वावि तत्थ वचंति । वेसत्थीसंसग्गी, उवस्सयाओ समीवंमि ॥१२५॥
व्याख्या-'खरघोडाइ०' खरा-गईभाः घोटका:-तुरंगमाः आदिशब्दाबस्त्यादयस्तेषां स्थाने या ब्रजन्ति । उक्तं च व्यवहारभाष्यसप्तमोद्देशके-" तह चेव हत्थिसाला-घोडगसालाण चेव आसन्ने । जति तह जंतसाला, काहीयत्तं च कुवंति ।१।" अथवा 'खर 'त्ति खरका-दासाः घोडाः-चट्टाः अयं चानयोः शब्दयोरथः, श्रीबृहत्कल्पतृतीयोद्देशकसत्तावस्ति आदिशब्दात् द्यूतकारादयस्तेषां स्थाने ब्रजन्ति ते गईभाः अश्वादयो दासचट्टादयो वा तत्रार्यिकोपाश्रये व्रजन्ति समायान्तीत्यर्थः, श्रीव्यवहारभाष्यसप्तमोद्देशके वेवं प्रथमपदपाठान्तरं-'यलिघोडाइहाणे 'त्ति तत्र स्थाल्यो-देवद्रोण्यः तत्र घोटाडिंगरा अत्रादिशब्दस्तेषामेव देव डिंगराणामनेकभेदख्यापनार्थस्तेषां स्थाने व्रजन्ति ते वा स्थलीघोटादेवडिंगराऽपरपर्यायास्तत्रार्यिकोपाश्रये व्रजन्ति तथा वेश्यास्त्रीसंसर्गिः सदैव यासां यदिवा वेश्यागृहसमीपे यासामुपाश्रयः ता आर्यिका न भव