SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१४॥ 法法院民 न्तीति शेषः इति । गाथाछन्दः॥ १२५ ॥ सज्झायमुक्कजोगा,धम्मकहाविगहपेसण गिहीणं । गिहिनिस्सिज्जं बाहिंति, संथवं तह कह()तीओ ॥१२६॥ व्याख्या-' सज्झाय.' स्वाध्यायेन मुक्तो योगो व्यापारो यासां ताः स्वाध्यायमुक्तयोगाः 'छक्कायमुक्कजोग 'त्ति पाठे तु षट्कायेषु मुक्तो योगो-यतनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगास्तथाभृताः सत्यो गृहिणां धर्मकथानामाख्याने विकथानां च-स्त्रीकथादीनां करणे प्रेषणे च प्रेरणे च नानारूपे गृहिणामुधुक्ताः, तथा या गृहिनिषद्यां बाधन्ते गृहिनिषिद्यामुपविशन्तीत्यर्थः, तथा याः संस्तव-परिचयं गृहस्थैः सह कुर्वन्त्यो वर्तन्ते ताः साध्व्यो न भवन्तीति । गाथाका छन्दः ॥ १२६ ॥ अथ वृत्तद्वयेन गणिनीस्वरूपं दर्शयति समा सीसपडिच्छीणं, चोअणास अणालसा। गणिणी गुणसंपन्ना, पसत्थपुरिसाणुगा ॥१२७॥ व्याख्या-'समा सी०' स्वशिष्याणां पातीच्छिकानां च समा-तुल्या तथा चोदनासु अनलसा-कृतोद्यमा प्रशस्तपुरुषाऽनुगता-प्रशस्तपुरुषानुसारिणी एवंविधा गणिनी-महत्तरिका गुणसम्पन्ना-ज्ञानादिगुणसहितेति । अनुष्टुप् छन्दः॥१२७ संविग्गा भीयपरिसा य, उग्गदंडा य कारणे। सज्झायज्झाणजुत्ता य, संगह अविसारया ॥१२८॥ व्याख्या-'संविग्गा०' संविग्ना-संवेगवती तथा भीतपर्षद् यतः कारणे उग्रदण्डा तथा स्वाध्यायध्यानयुक्ता तत्र स्वाध्यायः पञ्चधा ध्यानं च धर्मशुक्ललक्षणमिति, चकाराः समुच्चयार्थाः तथा सङ्ग्रहे-शिष्यादिसङ्घहणे चकारादुपग्रहे च
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy