Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 307
________________ वीप्सायां द्विर्वचनं तुश्चैवकारार्थः, ततश्च मासे मासे एव न खर्द्धमासादौ या आर्या-साध्वी एकसिक्थेन - एककणेन पारयेत् - पारणकं कुर्यात् ' कलहे 'त्ति कलहेच्च - कलहं कुर्यात् गृहस्थभाषाभिर्मर्मोद्घाटनशापप्रदानजकारमकारादिवचनैरित्यर्थः । अथवा कलहे - राठौ गृहस्थभाषाभिः क्रियमाणे सतीति शेषः । सर्वं तपःप्रभृतिधर्मानुष्ठानं तस्या निरर्थकं निष्फलमिति । विषमाक्षरेति गाथाछन्दः ॥ १३४ ॥ इत्येवं वर्णितं यविनीस्वरूपम्, अथ ग्रन्थकृद् येभ्यो ग्रन्थेभ्यो यदर्थं चाऽयं गच्छाचारः समुद्धृतः तद्दर्शनायाह महानिसीह कप्पाओ, ववहाराउ तहेव य । साहु साहुणि अट्ठाए, गच्छायारं समुट्ठिओ ॥१३५॥ व्याख्या -' महानि०' महानिशीथात्कल्पात् - बृहत्कल्पात् तथैव च व्यवहारात् छेदग्रन्थरूपादेव साधुसाध्वीनामर्थाय - कार्यायायं गच्छाचारः समुद्धृतो नपुंसकत्वमत्र प्राकृतत्वादेवेति । विषमाक्षरेति गाथाछन्दः ॥ १३५ ॥ अथ ग्रन्थकदेवस्य ग्रन्थस्याध्ययनविधिमुपदिशन्नाह - परंतु साहुणो एयं, असज्झायं विवज्जिनं । उत्तमं सुअनिस्संद, गच्छायारं सुजत्तमं ॥ १३६ ॥ व्याख्या -' पढेतु ० ' पठन्तु साधवः उपलक्षणत्वात् साध्ध्यश्च एतद् ' गच्छायारं 'ति गच्छाचारभिधमकीर्णकं किं कृत्वा विवर्ण्य परित्यज्य किं ' असज्झायं 'ति अस्वाध्यायिकं आकाशभवादिभेदभिन्नं स्वाध्यायविघातकृत्, यत उक्तम्स्थानाङ्गदशमस्थाने - " दसविहे अंतलिक्खिए असज्झाइए पन्नत्ते तं जहा - उक्कावाए १, दिसिदाहे २, गज्जिए ३, विज्जुए Arthkranti

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316