Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 286
________________ गच्छा चार ॥१३९॥ गच्छवरः-सकलगच्छप्रधानः स्यादिति । गाथाछन्दः॥११७॥ अथ स्वच्छन्दाः श्रमण्यो यत्कुर्वन्ति तद्गाथापञ्चकेन प्रकटपतिजो जत्तो वा जाओ,नालोअइ दिवसपक्खिअंवावि।सच्छंदा समणीओ, मयहरिआए नठायंति॥११८ व्याख्या-'जो जत्तो०' यो यावान् वा अतीचार इति शेषः जातः-उत्पन्नः तंतया दैवसिकं पाक्षिकं वाऽपि शब्दा| चातुर्मासिकं सांवत्सरिकं वाऽतिचारं नालोचयन्ति, अत्र वचनव्यत्ययः प्राकृतत्वात् स्वेच्छाचारिणः श्रमण्यः तथा महत्त- 1 | रिकाया-मुख्यसाध्व्या आज्ञायामिति शेषः, न तिष्ठन्तीति । गाथाछन्दः॥ ११८॥ विटलिआणि पउंजति, गिलाणसेहीण नेव तप्पंति। अणगाढे आगाढं, करति आगाढि अणगाढं॥११९॥ _व्याख्या-' विटलि' विंटलिकानि-निमित्तादीनि, विटलं-निमित्तादीत्योपनियुक्तिकृत्यादौ व्याख्यानात् तानि प्रयुअन्ते, अत्रापि वचनव्यत्ययः प्राकृतत्वादेव, तथा ग्लानाश्च-रोगिण्यः शैक्ष्यश्च-नवदीक्षिता इति द्वंद्वोऽतस्ताः नैव तर्पयन्तिऔषधभेषजवस्त्रपात्रज्ञानदानादिना नैव प्रीणयन्तीत्यर्थः । अत्र सूत्रे 'क्वचिद् द्वितीयादे' (८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने पष्ठी । यथा 'सीमाधरस्स बंदे 'त्ति तथा आगाह-अवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाढं अनागाढं तस्मिन् अनागाढे कार्य इति शेषः। आगाढं-अवश्यकर्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः । तथा आगाढे-अवश्यकर्तव्ये कार्ये अनागाढं कार्य येन कृतेन विनापि सरति तत्कार्यं कुर्वन्तीत्यर्थः । अथवा अनागाढयोगाऽनुष्टाने वर्तमाने आगाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठाने अनागाढयोगानुष्ठानं कुर्वन्ति स्वच्छन्दाः श्रमप्य इति कर्तृपदं पूर्वगाथात आकर्षणीयम् , ॥१३९॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316