________________
ततश्च संसारपर्यटनमिति, उक्तं च-दशवकालिकसूत्रे-" विभृसावत्ति भिख्खु, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥१॥ विभूसावत्तियं चेयं, बुद्धा मन्नति तारिसं । सावज्जबहुलं चेय, नेयं ताईहिं सेवियं ॥२॥" तथोज्ज्वलवेषेण ब्रह्मविनाशोऽपि सम्भवी, उज्ज्वलवासः परिधानभुषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः ? ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्य ब्रह्मचर्यादपभ्रश्यति । अथ यदि कश्चित् तत्त्ववेदितया संयमविषये निष्पकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति, तथाऽप्युज्जवलवेपतो लोकेन सोऽस्थाने स्थाप्यते, यथा-नूनमयं कामी, कथमन्यथा आत्मानमित्थं भूषयति ? न खलु अकामी मण्डनमियो भवतीति । तुः-पुनर्यो गच्छश्चारित्रगुणैरुज्जवलो निरतिचारस्तमेव गच्छ सेवेत, संसारक्षयहेतुत्वात् , तुरेवार्थ, इयं गाथा श्रीमहानिशीथपञ्चमाध्ययनेऽप्यस्तीति । गाथाछन्दः॥ १०२॥ जत्थय मुणिणो कयविक्कयाइ कुवंति संजमभट्ठा। तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा॥१०३॥
व्याख्या-यत्र गणे मुनयो-द्रव्यसाधका क्रय-मूल्येन वस्त्रपात्रौषधशिष्यादिग्रहण विक्रय च-मूल्येनान्येषां वस्त्रपात्रादिकार्पणं कुर्वन्ति, च शब्दादन्यैः कारयन्ति अनुमोदयन्ति च. किम्भता मुनयः? संयमभ्रष्टा:-दूरीकृतचारित्रगुणाः, गुणसागरेति गौतमामन्त्रणं, ते गच्छं विषमिव-हालाहलमिव दरतः परिहरेत सन्मुनिः, अत्र विषस्योपमा देशसाम्ये, यतो विषादेकमरणं भवति संयमभ्रष्टगच्छावनंतानि जन्ममरणानि भवन्तीति । गाथाछन्दः॥ १०३ ॥