________________
गच्छा चार
4॥१२॥
आरंभेसु पसत्ता, सिद्धंतपरंमुहा विसयगिद्धा।मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ॥१०॥
व्याख्या-' आरंभे० ' आरम्भेषु-पृथिव्यायुपमर्दनेषु प्रसक्ताः-तत्पराः, सिद्धान्तपराङ्मुखाः-आगमोक्तानुष्टानशून्याः, विषयेषु-शब्दरूपरसगन्धस्पर्शषु गृद्धा-लम्पटाः, हे गौतम ! ये एवंविधास्तान् मुनीन् मुक्त्वा-परित्यज्य, मुविहितानां--सदनुठानोद्यतानां मध्ये वसेन्सुनिरिति । अत्र शब्दादिविषयलम्पटत्वे क्रमेण राम १ चपलाक्ष २ गन्धप्रियकुमार ३ मधुपियकुमार ४ महेन्द्रदष्टान्ताः ५ लिख्यते । तत्र रामकथा यथा-ब्रह्मस्थलपुरे भुवनचन्द्रो राजा, रामः सुतः ७२ कलाकुशलः, अन्यदा राज्ञा मन्त्री पृष्टः,रामाय यौवराज्यपदं ददामीति,मंत्र्याह-नायं योग्यः,कोदोष? इति राज्ञाक्ते मन्त्र्याह-देव ! अयमवशश्रोत्रेन्द्रियःमत्यह गीतप्रियः,राजा हसित्वाऽऽह-मंत्रिन् ! राज्ञां गीतप्रियत्वं गुणः, अहो ! तव चतुरता,मंन्याह-देव ! अत्यासक्तत्वं दोषः, "जह अग्गीइ लवोवि हु, पसरंतो दहइ गामनगराई । इक्विक्कमिदियंपि हु, तह पसरंतं समग्गगुणे ॥१॥ तत एतस्य लघुभ्रातुः सम्पति जातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयतामिति मन्त्रिणि कथयत्यपि राज्ञा रामस्यैव दत्तं, क्रमेण राज्ञि मृते स एव राजा जातः, कनीयान् भ्राता युवराजा, रामोऽहनिशं गीतानि शृणोति, स्वयमपि गायति, करोत्यभिनवानि गीतानि, शिक्षयति डंबादीन् , नित्यं गीतासक्त एवास्ते, न राज्यचिन्तां करोति, अन्यदा तरुणी डुंबीभिर्गीतप्रसक्तस्तद्रपमोहितोऽवगणय्य निजकुलादिमर्यादा, तां सेवतेऽनाचारी सततं तदासक्त एवास्ते, ततो मन्त्रिप्रभृतिभिर्विचार्य तस्य लघुभ्राता महाबलो राज्ये स्थापितः, रामो निभटितो देशात् , विदेशे भ्रान्खा मृत्वा हरिणो जाता, गीतश्रवणासक्तो व्याधेन हतः, जातो महाबलपुरोहितस्य पुत्रः, तत्रापि गीतप्रियः अवशश्रवणेन्द्रिया, अन्यदा महाबलनृपेण रात्रौ डुम्बकुटुम्बे गायति पार्श्वे स्थितः
॥१२५॥