Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 258
________________ गच्छा चार 4॥१२॥ आरंभेसु पसत्ता, सिद्धंतपरंमुहा विसयगिद्धा।मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ॥१०॥ व्याख्या-' आरंभे० ' आरम्भेषु-पृथिव्यायुपमर्दनेषु प्रसक्ताः-तत्पराः, सिद्धान्तपराङ्मुखाः-आगमोक्तानुष्टानशून्याः, विषयेषु-शब्दरूपरसगन्धस्पर्शषु गृद्धा-लम्पटाः, हे गौतम ! ये एवंविधास्तान् मुनीन् मुक्त्वा-परित्यज्य, मुविहितानां--सदनुठानोद्यतानां मध्ये वसेन्सुनिरिति । अत्र शब्दादिविषयलम्पटत्वे क्रमेण राम १ चपलाक्ष २ गन्धप्रियकुमार ३ मधुपियकुमार ४ महेन्द्रदष्टान्ताः ५ लिख्यते । तत्र रामकथा यथा-ब्रह्मस्थलपुरे भुवनचन्द्रो राजा, रामः सुतः ७२ कलाकुशलः, अन्यदा राज्ञा मन्त्री पृष्टः,रामाय यौवराज्यपदं ददामीति,मंत्र्याह-नायं योग्यः,कोदोष? इति राज्ञाक्ते मन्त्र्याह-देव ! अयमवशश्रोत्रेन्द्रियःमत्यह गीतप्रियः,राजा हसित्वाऽऽह-मंत्रिन् ! राज्ञां गीतप्रियत्वं गुणः, अहो ! तव चतुरता,मंन्याह-देव ! अत्यासक्तत्वं दोषः, "जह अग्गीइ लवोवि हु, पसरंतो दहइ गामनगराई । इक्विक्कमिदियंपि हु, तह पसरंतं समग्गगुणे ॥१॥ तत एतस्य लघुभ्रातुः सम्पति जातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयतामिति मन्त्रिणि कथयत्यपि राज्ञा रामस्यैव दत्तं, क्रमेण राज्ञि मृते स एव राजा जातः, कनीयान् भ्राता युवराजा, रामोऽहनिशं गीतानि शृणोति, स्वयमपि गायति, करोत्यभिनवानि गीतानि, शिक्षयति डंबादीन् , नित्यं गीतासक्त एवास्ते, न राज्यचिन्तां करोति, अन्यदा तरुणी डुंबीभिर्गीतप्रसक्तस्तद्रपमोहितोऽवगणय्य निजकुलादिमर्यादा, तां सेवतेऽनाचारी सततं तदासक्त एवास्ते, ततो मन्त्रिप्रभृतिभिर्विचार्य तस्य लघुभ्राता महाबलो राज्ये स्थापितः, रामो निभटितो देशात् , विदेशे भ्रान्खा मृत्वा हरिणो जाता, गीतश्रवणासक्तो व्याधेन हतः, जातो महाबलपुरोहितस्य पुत्रः, तत्रापि गीतप्रियः अवशश्रवणेन्द्रिया, अन्यदा महाबलनृपेण रात्रौ डुम्बकुटुम्बे गायति पार्श्वे स्थितः ॥१२५॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316