________________
गच्छा चार
॥१०४॥
मित्यपि शब्दार्थः, कारणं विना साधुभिः परिभुज्यते हे गौतम ! स कीदृशो गच्छ: १ न कीदृशोऽपीति, नन्वत्र आर्यालब्धत्वं पतद्ग्रहाद्युपकरणस्य कथं सम्भवति, आर्याणां गृहस्थसकाशात् स्वयं वस्त्रपात्रग्रहणस्यैव निषेधात् , ग्रहणे च प्रायश्चित्तमनेके दोषाश्च । उक्तश्च-यतिजीतकल्पप्रकरणे “गुरुउबहिअपडिलेहे, छप्पइअअसोहिकमि तदग्गहणे । लहुया गुरुमजाणं, सयमेव य वत्थपायगहे ॥ १॥" अस्याः किञ्चिदूनपश्चार्द्धत्तिलेशो यथा-"आर्याणां संयतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः, यतः-संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणेऽनेकदोषाः सम्भवन्ति । तथाहि-संयती गृहस्थादत्राणि गृहन्तो दृष्ट्वा कोऽप्यभिनवश्राद्धो मिथ्यात्वं गच्छेत् , निर्ग्रन्थ्योऽपि भाटिं गृह्णन्तीति शङ्कते वा, गृहस्थो वा वस्त्राणि दत्वा मैथुनमवभाषेत, प्रतिषिद्धे चैषा मे वस्त्राणि गृहीत्वा उक्तं न करोतीत्युड्डाई कुर्यात् , स्त्री च स्वभावेनाल्पसचा ततो येन तेन वा वस्त्रादिनाऽल्पेनापि लोभ्येत लोभिता चाकार्यमपि करोति, बहुमोहा च स्त्री, तत: पुरुषैः सह संलापं कुर्वन्त्या वस्त्राणि गृह्णन्त्याच तस्या पुरुषसम्पर्कतो मोहो दीप्यते, उदाररूपां वा संयतीं दृष्ट्वा कार्मणादिना काश्चिद्वशी कुर्यात्, वशीकृता च चारित्रविराधनां करोति, तस्मान्निग्रन्थीभिगृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि, किन्तु तासां तानि गणधरेण दातव्यानि । तत्रायं विधिःसंयती प्रायोग्यमुपधिमुत्पाद्य सप्तदिनानि स्थापयति, ततः कल्पं कृत्वा स्थविरं स्थविरां वा परिधापयति, यदि नास्ति विकारस्ततः सुन्दरं, एवं (परीक्षां कृत्वा ददाति) परीक्षामकृखा यदि ददाति तदा चतुर्गुरुक, तश्च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति, गणिनी च संयतीनां विधिना ददाति । अथाचार्यः स्वयं तासां ददाति तदा चतुर्गुरुकम्, यतः काचिन्मन्दधर्मा भणेदस्याश्चोक्षतरं दत्तं एषाऽस्येष्टा यौवनस्था च एवमस्थाने स्थापयति तस्मादाचार्येण प्रवर्त्तिन्या एव दातव्यमित्यादि।