SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ एतच्च निशीथपञ्चदशोद्देशकचूर्णावपि सविस्तरमस्तीति। अत्रोच्यते यदुक्तं भवता तत्सत्यं परं सम्भवत्येव श्रमणाभावादौ आर्या लब्धत्वमुपकरणस्य श्रमणासम्भवादौ निर्ग्रन्थीनामपि स्थविरादिक्रमेण स्वयमेव वस्त्रग्रहणस्यानुज्ञानात् , उक्तश्च-निशीथपञ्चदशोद्देशकचूर्णावेव यथा-" चोदग आह-यद्येवं सूत्रस्य नैरर्थक्यं प्रसज्यते आयरिओ आह-असइसमणाण चोअग, जायंति निमंतवत्य तह चेव । जायंति थेरि असती, व मीसगा मोत्तिमे ठाणे ॥१॥ हे चोदक ! समणाणं असति थेरिआओ वत्ये जायंति निमंतणे वत्थं वा गेहति जहा साहू तहा ताओ वि थेरीणं असति तरुणि व तम्मिस्साओ जायंति इमे ठाणे मोत्तु"मित्यादि । अत्र वस्त्रग्रहणवत्पात्रग्रहणमनुक्तमपि श्रमणाभावादावनुज्ञातं सम्भाव्यते' इति । गाथाछन्दः ॥९१॥ अइदुल्लहभेसज, बलबुद्धिविवर्णपि पुट्टिकरं । अज्जालद्धं भुजइ, का मेरा तत्थ गच्छम्मि ॥९२॥ __ व्याख्या-' अइदु०' यत्र गणेऽपि शब्दस्य प्रति विशेषणं सम्बन्धात् अतिदुर्लभमपि-अतिशयेन दुष्पाप्यमपि अत्र विभक्तिलोपःप्राकृतत्वात् समासो वा भैषज्यशब्देन सह तथा बलबुद्धिविवर्द्धनमपि तत्र बलं-शरीरसामर्थ्य बुद्धिः-मेधा तथा पुष्टिकरमपि-शरीरोपचयकार्यपि भैषज्यं-औषधमार्यालब्ध-साव्यानीतं भुज्यते साधुभिरिति शेषः । हे गौतम ! का मेराका मर्यादा तत्र गच्छे ? न काचिदपीत्यर्थः, मेरेति मर्यादावाची देशीशब्द इति । गाथाछन्दः ॥ ९२ ॥ एगो एगितिथए सद्धिं, जत्थ चिट्ठिज गोयमा!। संजइए विसेसेण, निम्मेरं तं तु भासिमो ॥१३॥ व्याख्या-'एगो ए.' एका-एकाकी साधुरेकाकिन्या स्त्रिया सार्धं हे गौतम ! यत्र तिष्ठेत् , तं गच्छे निमर-निर्याद
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy