________________
-
गुरुत्व ४ प्राप्ति ५ प्राकाम्ये ६ शित्व ७ वशित्व ८ अप्रतिघातित्व ९ अन्तर्धान १० कामरूपित्वादि ११ भेदात् , तत्राणुत्वअणुशरीरविकरणं येन बिसछिद्रमपि प्रविशति, तत्र च चक्रवर्तिभोगानपि भुक्ते १, महत्वं-मेरोरपि महत्तरशरीरकरणसामर्थ्य २, लघुत्वं वायोरपिलघुतरशरीरता ३, गुरुत्वं-वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टवलदुःसहता ४, प्राप्तिः-भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शसामर्थ्य ५, प्राकाम्यं-अप्सु भूमाविव गमनशक्तिः, तथा अप्स्विव भूमावुन्मजननिमज्जने ६, ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणं ७, वशित्वं-सर्वजीववधीकरणलब्धिः ८, अप्रतिघातित्वं-अद्रिमध्येऽपि निःसङ्गगमनम् ९, अन्त(न-अदृश्यरूपता १०, कामरूपित्वं-युगपदेव नानाकाररूपविकरणशक्तिः २१ । २६ । तथा 'अक्खीणमहाणस'त्ति अक्षीणमहानसो महानसं-अन्नपाकस्थानं तदाश्रित्वाद्राद्धानमपि महानसमुच्यते, ततश्च येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमेवाभुक्तं न क्षीयते, ते अक्षीणमहानसाः, उक्तं च-" अक्खीणमहाणसिआभिक्खं जेणाणिअं पुणो तेण । परिभुत्तं चिय खिज्जइ बहुएहिं वि न पुण अन्नेहिं ॥१॥” उपलक्षणत्वादक्षीणमहालयाच ते च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते, तत्रासख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परचाधारहितास्तीर्थकरपर्षदीव सुखमासते इति २७ तथा 'पुलाग' त्ति पुलाका:-पुलाकलब्धियुक्ता ये संघादिकार्ये चक्रवर्तिनमपि चूर्णयेयुः, उक्तं च-भगवतीवृत्ती "संघाइयाण कज्जे, चुणिज्जा चक्कवट्टिमवि जीए। तीए लदीइ जुत्तो, लद्धिपुलाओ मुणेयदो॥१॥"२८ । एवमेता अष्टाविंशतिसङ्ख्या आदिशब्दादन्याश्च मनोवाकायबलिलब्ध्यादयो जीवानां शुभशुभतरशुभतमपरिणामवशादसाधारणतपः