________________
इयन्तं कालं भवदन्तिके आसितव्यमित्येवरूपा एवं द्विपञ्चकसंयुक्ता-दश संख्या युक्ता सामाचारी प्रवेदिता-कथिता । १० ॥६॥ तथा अन्या पंचवस्तुकप्रवचनसारोद्धाराद्युक्ता दशविधसामाचारी यथा-"पडिलेहणा १ पमज्जण २-भिक्खि ३ रिया ४ लोय ५ मुंजणा ६ चेव । पत्तगधुवण ७ वियारा ८, थंडिल ९ आवस्सयाईया १०॥१॥" तत्र प्रत्युपेक्षणा उपधेः १, प्रमार्जना वसतेः२, भिक्षा-विधिना पिंडानय ३, इर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः४, आलोचनं-पिंडादिनिवेदनं ५, भोजनं चैवेति-प्रतीतं ६, पात्रकधावनं-अलाब्वादिप्रक्षालनं ७, विचारो-बहि मिगमनं ८, स्थंडिलं-परानुपरोधिमासुको भूभागः ९, आवश्यक-अतिक्रमणं १०, आदिशब्दात् कालग्रहणादिपरिग्रह इति सक्षेपार्थः विस्तरार्थस्त्वस्याः सामाचार्याः पञ्चवस्तुकगतप्रतिदिनक्रियाभिधद्वितीयद्वारादवसेयः, तथा अवश्यं कर्तव्यमावश्यकम , अथवा गुणानां आ-समन्तादृश्यमात्मानं करोतीत्यावश्यकम्, अथवा गुणशून्यमात्मानं आ समन्तात् वासयति गुणैरित्यावासकम, तत्र उद्युक्ता-उद्यताः, अनावश्यकस्वरूपं किश्चित् श्रीअनुयोगद्वारसूत्रोक्तं यथा-" से किं तं आवस्सयं? आवस्सयं चउनिह पं० त० नामावस्सय १ ठवणावस्सयं २ दवावस्सयं ३ भावावस्सयं ४ । से किं तं नामावस्सयं ? नामावस्सयं जस्स णं जीवस्स वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा-आवरसए ति नाम कजइ से तं नामावस्सयं १। से कि तं ठवणावस्सयं ? ठवणावस्सयं जणं कट्टकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भावठवणा वा असम्भावठवणा वा आवस्सए त्ति ठवणा ठविज्जइसे ते ठवणावस्सयं ।” काष्ठकादिष्यावश्यकक्रियां कुर्वन्तो यत्स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थाप