________________
गच्छा चार
॥५४॥
छट्टो ६ । सत्तमो मिच्छकारो य ७ तहकारो य अट्टमो ८ ॥ २ ॥ अभुद्वाणं च नवमा ९ दसमा उवसंपया १० । एसा दसंगा साहूणं, सामाचारी पवेदिया || ३ || गमणे आवत्सिय कुज्जा १, ठाणे कुजा निसीहियं २ । आपुच्छणा
करणे ३, परकरणे पडिपुच्छणा ४ ॥ ४ ॥ छंदणा दव्वजाएणं ५, इच्छाकारो य सारणे ६ । मिच्छाकारो य जिंदाए ७, aeकारो पsिerए ८ ॥ ५ ॥ अभुट्टाणं गुरुपूया ९, अच्छणे उवसंपया २० । एवं दुपंच संजुत्ता, सामायारी पवेदिया ॥ ६ ॥ " ग० आवश्यकेषु - अप्रमत्ततया अवश्यकर्त्तव्यव्यापारेषु सत्सु भवा आवश्यकी तां गमने कुर्यात् १, स्थाने-उपाश्रये प्रविशन् इति शेषः, नैषेधिक कुर्यात्, तत्र निषेधः प्रमादेभ्य आत्मनो व्यावर्त्तनं तत्र भवा नैषेधिकी २, आमच्छना - इदमहं कुर्सी न वा इत्येवंरूपा स्वयमिति-आत्मनः करणं कस्यचित्कार्यस्य स्वयंकरणं तस्मिन् ३, अन्यस्य कार्य विधाने प्रतिप्रच्छना - गुरुनियोगेऽपि पुनः प्रवृत्तिकाले गुरोः प्रच्छना प्रतिप्रच्छना स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति ४ ॥ ४ ॥ छं० द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेन छन्दना - निमन्त्रणा ५, इच्छा-स्वाभिप्रायः तया करणं - तत्कार्यनिर्वर्त्तनं इच्छाकारः सारणे इति-औचित्येनात्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मचिकीर्षितं कार्यमिदमहं करोमीति, अन्यसारणे च मम पात्रलेपनादि इच्छाकारेण कुरुतेति ६, मिथ्याकारः - आत्मनो निन्दायाम् वितथाचरणे धिगिदं मिथ्या मया कृतमिति ७, तथाकार - इदमित्थमेवेत्यभ्युपगमः प्रतिश्रुते-प्रतिश्रवणे वाचनादीनां गुरोः पार्श्वत् ८ ॥ ५ ॥ अ० आभिमुख्येनोत्थानं - उद्यमनमभ्युत्थानं तच्च गुरुपूजायां सा च गौरवार्हाणां आचार्यग्लानवालादीनां यथोचि ताहारादिसम्पादनम् ९ ' अच्छजे ' त्ति आसने प्रक्रमादाचार्यन्तिरादिपाश्र्वविरथाने उप-सामीप्येन सम्पादनं गमनं उपसम्पत्
KANAKAT
萬
वृत्तिः
॥५४॥