________________
चतुर्दा, कस्यापि एपणेति नामेति नामैषणा १, एपणावतः साध्वादेरयमेषणेति स्थापनेति स्थापनैषणा २, द्रव्यैषणा सचित्ताचित्तमिश्रभेदात् त्रिधा ३, भावैषणाऽपि गवेषणैषणाग्रहणैषणाग्रासैपणाभेदात् त्रिधा, तत्र गवेषणैषणायां प्रथमे बात्रिंशदोषाः ग्रहणैषणायां शङ्कितादिदशदोषा ज्ञेयाः, तत्र दायकदोषस्य किश्चिदुच्यते, तत्रोत्सर्गेण बालादिचत्वारिंशदायकानां हस्ताद् ग्रहणं न कल्पते, अपवादे तु बालादिपञ्चविंशतिसंख्यानां हस्ताद् ग्रहणं भजनीयम्, अन्येषां पश्चदशानां हस्तादग्रहणमिति । भजना यथा-यदि बालो दक्षः स्यात् तदा तेन मातुः परोक्षे भिक्षामात्रे दीयमाने यदि वा पार्श्ववर्तिना मात्रादिना सन्दिष्टे सति तेन दीयमानेऽविचारितमेव ग्राह्यम्, अतिप्रभूते तु बालेन दीयमाने किमद्य त्वं प्रभूतं ददासीति विचारणे सति यदि पार्श्ववर्तिमात्रादि सानुकूलता स्यात् तदा ग्राह्य नान्यथा १, स्थविरो यदि प्रभुर्भवति यदि वा कम्पमानोऽन्येन धृतः स्यात् स्वरूपेण वा दृढशरीरस्तदा ततः कल्पते २, यो मनाग् मत्तः स च यदि श्राद्धोऽविह्वलश्च ततः तस्मात् कल्पते यदि सागारिको न विद्यते नान्यथेति ३, उन्मत्तो दृशादिर्यदि शुचिर्भद्रकश्च तदा तद्धस्तात्कल्पते नान्यथा ४, वेपितोऽपि यदि दृढहस्तस्तदा तस्मात्कल्पते ५, ज्वरितादपि ग्राह्यं ज्वरे शिवे सति ६, अन्धोऽपि यदि देयमन्येन धृतं ददाति स्वयं श्राद्धश्च यदि वा स एवान्धोऽन्येन विधृतः सन् ददाति तर्हि ततो ग्राह्यम् ७, मण्डलपमूतिकुष्टी सागारिकाभावे चेद्ददाति तर्हि ततः कल्पते न शेषकुष्टिनः ८, पादुकारूढोऽपि यदि भवत्यचलस्तदा कारणे सति कल्पते ९, पादयोर्बद्धो यदि इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात् कल्पते, यस्तु इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तदा ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव न भजना १०, छिन्नकरोऽपि