SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ इयन्तं कालं भवदन्तिके आसितव्यमित्येवरूपा एवं द्विपञ्चकसंयुक्ता-दश संख्या युक्ता सामाचारी प्रवेदिता-कथिता । १० ॥६॥ तथा अन्या पंचवस्तुकप्रवचनसारोद्धाराद्युक्ता दशविधसामाचारी यथा-"पडिलेहणा १ पमज्जण २-भिक्खि ३ रिया ४ लोय ५ मुंजणा ६ चेव । पत्तगधुवण ७ वियारा ८, थंडिल ९ आवस्सयाईया १०॥१॥" तत्र प्रत्युपेक्षणा उपधेः १, प्रमार्जना वसतेः२, भिक्षा-विधिना पिंडानय ३, इर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः४, आलोचनं-पिंडादिनिवेदनं ५, भोजनं चैवेति-प्रतीतं ६, पात्रकधावनं-अलाब्वादिप्रक्षालनं ७, विचारो-बहि मिगमनं ८, स्थंडिलं-परानुपरोधिमासुको भूभागः ९, आवश्यक-अतिक्रमणं १०, आदिशब्दात् कालग्रहणादिपरिग्रह इति सक्षेपार्थः विस्तरार्थस्त्वस्याः सामाचार्याः पञ्चवस्तुकगतप्रतिदिनक्रियाभिधद्वितीयद्वारादवसेयः, तथा अवश्यं कर्तव्यमावश्यकम , अथवा गुणानां आ-समन्तादृश्यमात्मानं करोतीत्यावश्यकम्, अथवा गुणशून्यमात्मानं आ समन्तात् वासयति गुणैरित्यावासकम, तत्र उद्युक्ता-उद्यताः, अनावश्यकस्वरूपं किश्चित् श्रीअनुयोगद्वारसूत्रोक्तं यथा-" से किं तं आवस्सयं? आवस्सयं चउनिह पं० त० नामावस्सय १ ठवणावस्सयं २ दवावस्सयं ३ भावावस्सयं ४ । से किं तं नामावस्सयं ? नामावस्सयं जस्स णं जीवस्स वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा-आवरसए ति नाम कजइ से तं नामावस्सयं १। से कि तं ठवणावस्सयं ? ठवणावस्सयं जणं कट्टकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भावठवणा वा असम्भावठवणा वा आवस्सए त्ति ठवणा ठविज्जइसे ते ठवणावस्सयं ।” काष्ठकादिष्यावश्यकक्रियां कुर्वन्तो यत्स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थाप
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy