________________
पुष्पमाला लघुवृत्ति ॥२१॥
४ भावनाधिकारे गुरुगुणवर्णने अष्टविधाचारसंम्पदः।
ARKESAR
ASARABGABROADCAMPORDE
श्रुतसम्पत् २,शरीरसम्पत् ३, वचनसम्पत् ४, वाचनासम्पत् ५, मतिसम्पत् ६, प्रयोगमतिसम्पत् ७, सङ्ग्रहपरिज्ञासम्पदा तथा चोक्तं "आयारसुअसरीरे, वयणे वायणमई पओगमई । एएसु संपया खलु, अट्ठमिया संगहपरिण्णा ॥१॥
एतासु चैकैका चतुर्विधा, तत्र तावदाचारसम्पदित्थं चतुर्की-नित्य चारित्रोद्युक्तता १, जात्यादिमदमुक्तत्वं २, अनि. यतविहारस्वरूपता ३, निर्विकारता ४ ॥ अथ श्रुतसम्पच्चतुर्दा-बहुश्रुतता १, परिचिसूत्रता २, घोषविशुद्धिकरणता ३, उदात्तानु दातादिस्वरविशुद्धिविधायिता ४ । अथ शरीरसम्पच्चतुर्की-लक्षणप्रमाणोपेतदैर्ध्य विस्तारयुक्तता १, सम्पूर्णाहीनसर्वाङ्गत्वेन लज्जा यितुमनोऽशक्यो वा अलज्जनीयस्तद्भावोऽलज्जनीयता २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता चेति ४। अथ वचनसम्पच्चतुर्द्धा-आदेयवचनता १, मधुरवचनता २, रागाद्यनिश्रितवचनता ३,परिस्फुटासन्दिग्धवचनता ४। अथ वाचनासम्पच्चतुर्दा-शिष्याणां यथायोग्यं सूत्रस्योद्देशनं १, एवं समुद्देशनं २,पूर्वप्रदत्तमूत्रालापकान् सम्यक परिणमय्य ततोऽपरालापकानां वाचना ३,पूर्वापरसाङ्गत्येन विमृशतः प्ररूपयतो वा सूत्राभिधेयस्य सम्यग्निर्वाहणाना ४ । अथ मतिसम्पञ्चतुद्धा-अवग्रह १, ईहा २, अवाय ३ धारणा ४ भेदात, तत्स्वरूपं च-"अत्याण उग्गहणम्मि,उग्गहोतह वियारणे ईहा । ववसायम्मि अवाओ, धरणं पुण धारण थिति ॥१॥" इत्यादि । अथ प्रयोगमतिसम्पच्चतुर्दा-वादादिव्यापारकाले किममुं वादिनं जेतुं मम शक्तिरस्ति न वा ? इत्याद्यात्मस्वरूपपर्यालोचनं १, किमयं वादी साङ्ख्यः सौगतोऽन्यो वा ? प्रतिभादिमानितरो वा इत्यादि पुरुषपरिभावनं २, किमिदं क्षेत्रं साधुभिर्भावितमभावितं वा? इत्यादि विमर्शनं ३, किमिदमाहारादिवस्तु मम हितं न वा? इत्यादि विचारणं चेति ४। सङ्ग्रहोपसम्पदपि चतु-बालग्लानबहुश्रुतादिनिर्वाहयोग्यक्षेत्रग्रहणं १, वर्षासु निषद्यादिमालिन्यजन्तुघातादिपरिहाराय पीठफलकोपादानम् २, यथासमयमेव
R
ECE
॥२११॥