Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 295
________________ पुष्पमाला Pस निणः श्रीमतीमारणाय कुतोऽपि कृष्णसर्पमानीय घटे चिक्षेप। ततस्तां प्रदोषसमये समादिशतिस्म-प्रिये ! घटस्थां कुसुममाला IPY मावनाविधी ४ समर्पयेति कथनानन्तरमेवान्धकारस्थापितं घटं दृष्ट्वा तया नमस्कारमणनपूर्व करे क्षिप्ते सन्निहितदेवतया सर्पमपहत्य संस्थापिता | SIनमा घुवृतिः कुसुममाला, तामादाय मत्तुदत्ते सा, सोऽप्यतिविस्मितश्चिन्तयति-अहो!! किमेतत् ?, गत्वा यावद् घटं विलोकयति तावत्पुष्पाणि बीजपूरवनोदा अ५६७! | पश्यति, न पुनर्भुजङ्गं, ततो भार्यागुणहृष्टस्तन्माहात्म्यं च विचार्य मीतस्तां क्षामयित्वा दृष्टनमस्कारफलो जिनधर्म प्रतिपद्य श्रीमती || हरणम् । सर्वगृहस्वामिनी कृतवान्। ततो विपुलान् भोगान् भुक्त्वा बहुदिनप्रान्ते द्वावपि वैराग्यादीक्षां प्रतिपद्य सम्यक् प्रतिपाल्य ब्रह्मलोकगती, महाविदेहे सेत्स्यतः। "एवं च नमुक्कारो, जीवियरक्ख च कामलाभं च । इहलोयम्मि वि साहइ, जीवाणं | भत्तिजुत्ताण ॥१॥" इति श्रीमतीकथा समाप्ता । मातुलिङ्गवनं-बीजपूरवनं, तदुदाहरणम् , तथाहि-एकस्मिन्नगरे नदीतीरे एकेन खरकार्मिकेणैकं महाप्रमाणं सुगन्धिवर्णाढ्यं बीजपूरं पतितं प्राप्यात्यद्भुतं ज्ञात्वा राबस्समर्पितं । पृष्टश्च राजा क्व लब्धं ?, तेनाप्युक्तं-नदीप्रवाहे, ततस्तुष्टिदानं दत्वा विसृष्टस्सः। | राज्ञा तस्मिन्नपूर्वे भुक्ते स्वपुरुषैनदीतीरं शोधितं, यावदेकत्रापूर्व वनं दृष्टं श्रुतं च-यः कुतोऽप्यमूनि फलानि गृहाति स म्रियते, ततस्तैः प्रत्यागत्योक्तं नृपतेस्तत् । तथाप्यनिवृत्तामिलापो राजा नगरलोकनामगर्भगोलकान् घटे प्रक्षिप्य प्रतिदिनमेकगोलकाकर्षणे तन्नाम्ना पुंसा वीजपूरमानाययति, सोऽप्यनात्मवशस्तत्र बने प्रविश्य बीजपूरं त्रोटयित्वा बहिः क्षिपति, अन्यस्तद्गृहीत्वा नृपतेर्ददाति, इतरस्तत्रेव म्रियते । एवं बहुभिदिनैरेकस्य श्रावकस्य वारकः प्राप्तः गतश्च स तत्र, श्रीजिनप्रणिधान विधाय नमस्कारं भणित्वा नषेधिकीं ४॥२६७७ |च कृत्वा यापदने प्रविशति तावत्तत्रस्थो व्यन्तरो नमस्काराद्याकर्णनात्प्रतिबुद्धः श्रावकं प्रत्याह-भो महानुभाव! साधुकृतं त्वया, ॐॐॐॐॐॐ

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336