Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला
लघुवृतिः
॥२९२॥
अथ सूत्रकृदेव सपराक्रम मरणस्वरूप माह
सपरक्कमं तु तहियं, निव्वाघायं तहेव वाघायं । जीयकप्पम्मि भणियं, इमेहिं दारेहिं नायव्वं ||४७९ || व्याख्या - तत्र मरणयोर्मध्ये सपराक्रमं तु निर्व्याघातं तथैव व्याघातयुक्तं च 'जीतकल्पभाष्ये' एतैरनन्तरवक्ष्यमाणेद्वारेभणितं ज्ञातव्यमिति गाथार्थ : ४७९ ।। तान्येव द्वाराण्याह -
सगणु निरसणपरगणे, सिति संलेहे अगीयसंविग्गे । एगो मोयणमन्ने, अणपुच्छ परिच्छया लौए ॥४८०॥ ठाण व सही पत्थे, निज्जवगा दवदायणे चरिमे । हाणि परितं तनिज्जर - संथारुवत्तणाईणि ॥ ४८१ ॥ सारेऊण य कवयं, निव्वाघाएण चिंधकरणं च । वाघाए जायणया, भत्तपरिण्णाऍ कायव्वा ||४८२||
व्याख्या - इह - भक्तप्रत्याख्यानं चिकीर्षुणा आचार्यादिना स्वगणान्निस्सरणा-निर्गमनं समयोक्तयुक्त्या कर्तव्या १ परगणे च विधिना सङ्क्रमणं कार्य, कुत एतदित्युच्यते - स्वगच्छे हि तिष्ठन्तं संलिखितशरीरं परलोकप्रस्थितं आचार्यादिकं दृष्ट्वा माध्यादयो रोदनः क्रन्दनादिकं कुर्वन्ति, ततस्तस्याचार्यादेर्ष्यानविघ्नः सम्पद्यते, तथोपकरणादिव्यतिकरे कलहयतः साधून् दृष्ट्वा तस्यासमाधिरुत्पद्यते, इत्यादिकारणकलापः सिद्धान्तादवसेय इति २ । 'सिति'त्ति श्रेणिर्विशेषतः पर्यन्ताराधनासमये प्रशस्ताध्यवसायपरम्परा लक्षणैव भावश्रेणिः प्रतिपत्तव्या ३ । 'संलेहे' त्ति संलेखनं संलेखः, शरीराद्यपकर्षणरूपा संलेखनेत्यर्थः, सा च त्रिधा - जघन्या पाण्मासिकी मध्यमा सांवत्सरिकी उत्कृष्टा द्वादशवार्षिकी । सा चैवं
४ भावनाधिकारे | सपराक्रमेतरमरण स्वरूपम् ।
॥२९२॥

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336