Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला कघुवृत्ति ॥२९७॥
B भावनाधिकारे
ऽनशनकरणनियमा।
रात्रिर्दिनं वा? इत्यादि, एवं च सारितो यद्यसौ प्रस्तुतं ब्रवीति तदा ज्ञायते न देवताऽधिष्ठितः, किन्तु परीषदबाधित इति ज्ञात्वा समाध्युत्पादनार्थ तोमरादिप्रहारकल्पादादिपरीषहावगणनहेतुत्वात्कवचमिव कवचमाहारो दीयते, ततस्तद्वलेन परीपहान् जित्वा प्रस्तुतपारगामी भवत्यसाविति द्वारम् २२। अनेन विधिना निर्व्याघातेन कारगतस्य साधोषित कर्तव्यं, तच्च द्विधा-शरीरत उपकरणतश्च, तत्र शरीरतस्तावद्भकं प्रत्याचिख्यासोः प्रथममेव लोचः कार्यः, गृहीते चानशने बहुदिनैः केशवृद्धिसम्भवे पुनर्लोचः कार्यः, उपकरणतस्तु कालगतस्यापि समीपे मुखपोतरजोहरणचोलपट्टरूपमुपकरणं मुच्यत एव, येन दिवमपि गतस्साधुरूपं दृष्ट्वा सम्यक्त्वं प्रतिपद्यते, अन्यथा सुराष्ट्राश्रावकवन्मिथ्यात्वगमनसम्भवाद, किश्व-चिह्नमन्तरेण परिष्ठापने चौः कोऽप्ययं गलमोटनादिना विनाशित इत्याशङ्कया ग्रामाणां राजनिग्रहादयो दोषा इति द्वारम् २३ । व्याघाते-भक्तप्रत्याख्याने पराभन्मत्वरूपे पुनर्याचनाअन्वेषणा, संलेखनाकरणप्रवृत्तस्य द्वितीयस्य पूर्वोक्तविधिना तत्स्थाने उपवेशनार्थ क्रियते, अथ नास्त्यसौ तदा समयोक्तविधिरत्र द्रष्टव्यः। एतच्च सर्व भक्तपरिबाप्रत्याख्यानलक्षषे मरणे द्रष्टव्यम्, पादपोपगमनेङ्गिनीमरणयोस्तु विधिर्वक्ष्यते, एषां चायं विषयविभाग:
सव्वाओ अज्जाओ, सव्वे वि य पढमसंघयणवज्जा। सब्वे य देसविरया, पचक्खाणे उ मरंति ॥१॥" इति गाथार्थः ॥४८२ । उक्तं द्विधाऽपि सपराक्रम, अथापराक्रममाहअपरकमो बलहीणो, निव्वाघाएण कुणइ गच्छम्मि । वाघाओ रोगविसा-इएहिं तह विज्जुमाईहिं ॥४८३॥
व्याख्या- अपराक्रमः कः? इत्याह-बलहीनः-परगणं गन्तुमशक्त इत्यर्थः, स एवम्भृतो निर्व्याघातेन रोगाद्युपद्रवाभावरूपेण करोत्युत्तमार्थ स्वगच्छेऽपि, न त्वन्यगणं गच्छतीत्यर्थः, व्याघातमेवाह-व्याघातो रोगविषादिभिस्तथा विद्युदादिभिश्च द्रष्टव्यः।
&॥२९॥

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336