Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 317
________________ पुष्पमाला लघुवृत्तिः ॥२८९ ॥ अयं चार्थो विमलयशाकथायां प्राक् प्रपञ्चित इति नेह प्रतन्यत इति गाथार्थः || ४७३॥ अथ सदृष्टान्तं प्रस्तुतोपसंहारमाहता जइ मणोरहाण वि, अगोयरं उत्तमं फलं महसि । ता धणमित्तोव्व दढं, धम्मे च्चिय आयरं कुणसु ॥ ४७४ | व्याख्या - यत एवं तद्यदि मनोरथानामप्यगोचरं किमप्युत्तमं [फलं] वाञ्छसि तर्हि धनमित्र इव दृढं धर्म एव कुर्विि गाथार्थः || ४७४ || कथानकं तुच्यते इह जम्बुद्वीपे भरते विनयपुरे बसुश्रेष्ठी, भद्रा भार्पा, तयोः पुत्रो धनमित्रः, बाल्येऽपि तस्य कियद्दिनैर्द्रविणं कुटुम्बं चक्षयङ्गतं कथमपि कष्टेन वृद्धिङ्गतः । प्राप्तयौवनस्य तस्य द्रव्योपार्जनोपाया निष्कला अभवन्, दुःखाद्वने गतः, क्षीरवृक्षे प्ररोद्दद्वयं दृष्ट्वाऽधो निधानद्वयमासीत् । भुवं खनित्वा विलोकयति तदाऽभाग्यात्तयोरङ्गारान् पश्यति, ततो धनार्थ पुनर्बहुषु जलस्थलगिरिनगरेषु भ्रमन् हस्तिनागपुरे सहस्राम्रवने केवलज्ञानिनं श्रीगुणसागरसूरिं स्वप्राग्भवमपृच्छत्, किश्च मया चक्रे ? येनेदृशोऽहं दुःखीति । सूरिराह-अत्रैव विजयपुरे नगरे प्राक् त्वं गङ्गदत्तनामा गाथापतिरासीत्, स च धर्मस्य नामापि न वेत्ति, धर्मकरणप्रवृत्तानां च विघ्नं करोति, स्वभावात् क्रोधनः, कस्यापि कपर्दिकामात्रं लाभं द्रष्टुं न शक्नोति, विविधोपायैर्लाभविघ्नं जनयति, यदि पुनः कस्यापि | लाभं प्रेक्षते तदा दाघज्वरादिभिर्गृह्यते । अन्यदा सुन्दरनाम्ना श्रावकेण कृपया कथमपि नीतो मुनीनां पाव, तैरप्युक्तो धर्मः, ततः किञ्चित्स्वभावेन श्रावकोपरोधेन च नित्यचैत्यवन्दनाभिग्नहेण समं द्वादशत्रतानि प्रतिपद्य गृहं गतो गङ्गदत्तः । ततः कानिचिदतिचार मलिनानि करोति व्रतानि कानिचिन्मूलतो नाशयति, एकं पुनर्नित्य चैत्यवन्दनाभिग्रहं द्रव्यभावाभ्यां प्रतिपालितवान् परेषां लाभविघ्नादिकुर्वन् समत्सरो मृत्वा धनमित्रस्त्वं जातः, व्रतभङ्गादिसमुत्पन्नपापपटलेनोत्तमकुलोऽपि निःस्वोऽसि । ततस्तदालोच्य - ४ भावनाधिकारे धर्मत्वे धनमित्र कथानकम् । ॥२८९॥

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336