Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला
घुवृत्तिः ॥२४९॥
| ४ मावनाद्वारे सवर्णीनामनन्द प्राप्तपूर्वत्वम् ।
व्याख्या-सत्यमिति परप्रतीतिमात्रेणाभ्युपगमे, सुराणां रत्नरचितभानेषु दिव्याभरणानि च विलेपनानि च वरकामिन्यश्च | नाटकानि च, तेषु रताना-मासक्तानामनुत्तरो विभवः-मुखं विद्यते, किन्तु मइमानमत्सरविषादेानलेन सन्तप्तास्तेऽपि देवास्तस्माद्देव
लोकाच्युत्वा केचिदनन्तं भवं भ्रमन्ति, तस्मादुक्तयुक्त्या तत्त्वतः सुराणामपि न किञ्चित्सुखं । अथवा इमानि महाविभवादीनि | सुखानि भवभ्रमणनिवन्धनादिम्योऽवसानदारुणान्येवातः किमेतैः साध्यते ?, अनन्तशश्च प्राप्तपूर्वाण्येतानि, तत्कस्तेषु सुखामिमानः?, इति गाथात्रयार्थः॥३९२-९३-९४॥ एतदेवाहतं नत्थि किं पि ठाणं, लोए वालग्गकोडिमित्तं पि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥३९५॥
_व्याख्या-'लोके चतुर्दशरज्ज्वात्मके वालाग्रकोटिमात्रमपि तत्स्थानं किमपि नास्ति, यत्र सर्वे जीवा बहुशो-ऽनेकवारान् सुखदुःखयोः परम्परां न प्राप्ता इति गाथार्थः ॥३९५॥ अर्थतत्समर्थनासारं द्वारस्योपसंहारमाह - सव्वा अवि रिद्धीओ. पत्ता सव्वे वि सयणसंबंधा। संसारे तो विरमस. तत्तो जड मणसि अप्पाणं ॥३९६॥
व्याख्या-सर्वा अपि ऋद्धयः सर्वेऽपि स्वजनसम्बन्धाश्च संसारे प्राप्ताः, परं ते न च स्थिराः, अतस्तेम्य ऋद्धिखजनसम्बन्धेभ्यो विरम[ख], यदि जानासि किमप्यात्मानं नित्यखरूपादिना तेभ्यो मित्रमिति गाथार्थः ॥३९६॥
इति निरवधिदुःखाश्लेषरोधकदक्षा, कृतशिवसुखपोषः प्रास्तनिःशेषदोषः । अवगतगुरुवाचां सद्विवेकाश्रितानां, भवतु भवविरागः प्राणिनां नित्य एवं ॥१॥ इति श्रीपुष्पमालाविवरणे भावनोबारे भवविरागलक्षणं प्रतिद्वारं समाप्तम् ॥१२॥
SHRSS
॥२४॥
।

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336