SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला घुवृत्तिः ॥२४९॥ | ४ मावनाद्वारे सवर्णीनामनन्द प्राप्तपूर्वत्वम् । व्याख्या-सत्यमिति परप्रतीतिमात्रेणाभ्युपगमे, सुराणां रत्नरचितभानेषु दिव्याभरणानि च विलेपनानि च वरकामिन्यश्च | नाटकानि च, तेषु रताना-मासक्तानामनुत्तरो विभवः-मुखं विद्यते, किन्तु मइमानमत्सरविषादेानलेन सन्तप्तास्तेऽपि देवास्तस्माद्देव लोकाच्युत्वा केचिदनन्तं भवं भ्रमन्ति, तस्मादुक्तयुक्त्या तत्त्वतः सुराणामपि न किञ्चित्सुखं । अथवा इमानि महाविभवादीनि | सुखानि भवभ्रमणनिवन्धनादिम्योऽवसानदारुणान्येवातः किमेतैः साध्यते ?, अनन्तशश्च प्राप्तपूर्वाण्येतानि, तत्कस्तेषु सुखामिमानः?, इति गाथात्रयार्थः॥३९२-९३-९४॥ एतदेवाहतं नत्थि किं पि ठाणं, लोए वालग्गकोडिमित्तं पि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥३९५॥ _व्याख्या-'लोके चतुर्दशरज्ज्वात्मके वालाग्रकोटिमात्रमपि तत्स्थानं किमपि नास्ति, यत्र सर्वे जीवा बहुशो-ऽनेकवारान् सुखदुःखयोः परम्परां न प्राप्ता इति गाथार्थः ॥३९५॥ अर्थतत्समर्थनासारं द्वारस्योपसंहारमाह - सव्वा अवि रिद्धीओ. पत्ता सव्वे वि सयणसंबंधा। संसारे तो विरमस. तत्तो जड मणसि अप्पाणं ॥३९६॥ व्याख्या-सर्वा अपि ऋद्धयः सर्वेऽपि स्वजनसम्बन्धाश्च संसारे प्राप्ताः, परं ते न च स्थिराः, अतस्तेम्य ऋद्धिखजनसम्बन्धेभ्यो विरम[ख], यदि जानासि किमप्यात्मानं नित्यखरूपादिना तेभ्यो मित्रमिति गाथार्थः ॥३९६॥ इति निरवधिदुःखाश्लेषरोधकदक्षा, कृतशिवसुखपोषः प्रास्तनिःशेषदोषः । अवगतगुरुवाचां सद्विवेकाश्रितानां, भवतु भवविरागः प्राणिनां नित्य एवं ॥१॥ इति श्रीपुष्पमालाविवरणे भावनोबारे भवविरागलक्षणं प्रतिद्वारं समाप्तम् ॥१२॥ SHRSS ॥२४॥ ।
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy