SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ शुष्पमाला लघुवृत्तिः ॥२५०॥ 346 अथ विनयद्वारं विमणिषुः पूर्वेण सह सम्बन्धगर्भा गाथामाह - इय भवविरतचित्तो, विसुद्धचरणाइगुणजुओ निच्चं । विणए रमेज्ज सच्चे, जेण गुणा निम्मला हुंति ॥ ३९७॥ व्याख्या - इत्थं भवविरक्तचिचो विशुद्धचरणादिगुणकलापेन युक्तो नित्यं सच्ये- मायाद्यदूषिते विनय एव रमेव, कुतः १ इत्याह-येन विनयेन हेतुभूतेन सर्वे गुणा निर्मला भवन्ति, विनयस्य सर्वगुणालङ्कारहेतुत्वादित्यर्थः । इति भवविरागद्वारानन्तरं विनयद्वारमुच्यत इति गाथार्थः ॥ ३९७ ॥ तत्र तावद्विनयशब्दस्यार्थमाह जम्हा विषय कम्मं, अट्ठविहं चाउरंतमोक्खाए। तम्हा उ वयंति विऊ, विणओ त्ति विलीण संसारा ॥ ३९८ ॥ व्याख्या - यस्माद्विनयति-स्फेटयत्यष्टप्रकारं कर्म्म, तस्माद्विलीनसंसाराः विदो -ज्ञानिनस्तीर्थ करगणधरा विनय इति वदन्ति, किमर्थं पुनरसौ कर्म विनयति ? इत्याह- चत्वारोऽन्ता नारकादिगतिलक्षणा यस्यासौ चतुरन्तः, चतुरन्त एव चातुरन्तः - संसारस्तस्य मोक्षो ऽपगमस्तदर्थमिति गाथार्थः || ३९८ || अथ विनयप्रकारानाहलोगोवयारविणओ, अत्थे कामे भयम्मि मुक्खे य। विणओ पंचवियप्पो, अहिगारो मुखविणणं ॥ ३९९ ॥ व्याख्या - लोकानामुपचारो - व्यवहारस्तत्र रूढो विनयो लोकोपचार विनयः, तद्यथा - तदुचितस्य कस्यचिद्दागच्छतोऽभ्युत्थानं आसनप्रदानं विज्ञापनादावञ्जलिबन्ध इत्यादि, तथा अर्थे ऽर्थविषये तत्प्राप्तिनिमित्तं विनयस्तद्यथा - अर्थलाभाकाङ्क्षया राजादीनां समीपेऽवस्थानं छन्दोऽनुवर्त्तनं अभ्युत्थानाञ्जलि बन्धासन प्रदानादि चेति । एतान्येव समीपस्थानादीनि कामिनां वेश्या ४ मावनामारे विनयशब्दार्थम ॥ २५० ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy