Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 86
________________ १४ आचार्यश्री हेमचन्द्रविरचिता [अ० १, आ० १ सू० १७-१९. इति । अथापि रागादिदोषकालुष्यविरहिताः सततज्ञानानन्दमयमूर्तयो ब्रह्मादयः तर्हि तादृशेषु तेषु न विप्रतिपद्यामहे, अवोचाम हि "यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिषया यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥" [ अयोग-३१] 5 इति । केवलं ब्रह्मादिदेवताविषयाणां श्रुतिस्मृतिपुराणेतिहासकथानां वैतथ्यमासज्येत । तदेवं साधकेभ्यः प्रमाणेभ्योऽतीन्द्रियज्ञानसिद्धिरुक्ता ॥ १६ ॥ बाधकाभावाच ॥१७॥ ५९. सुनिश्चितासम्भवाधकत्वात् सुखादिवत् तत्सिद्धिः इति सम्बध्यते । तथाहि 10 केवलज्ञानबाधकं भवत् प्रत्यक्षं वा भवेत् प्रमाणान्तरं वा १ । न तावत् प्रत्यक्षम् तस्य faridaाधिकारात् "सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना ।" [ श्लोकवा ० सू० ४, श्लो. ८४ ] सेवगणात् । ६०. अथ न प्रवर्तमानं प्रत्यक्षं तद्भावकं किन्तु निवर्तमानम् तत् ; हिं ( द्विग्यदि 15 नियत देशकालविषयत्वेन बाधकं तर्हि सम्प्रतिपद्यामहे । अथ सकलदेशकालविषयत्वेन; तर्हि न तत् सकलदेशकालपुरुष परिषत्साक्षात्कारमन्तरेण सम्भवतीति सिद्धं नः सभीहितम् । न च जैमिनिरल्यो वा सकलदेशादिसाक्षात्कारी सम्भवति सम्वपुरुषत्वादेः रथ्यापुरुषवत् । अथ प्रज्ञायाः सातिशयत्वात्तत्प्रकर्षोऽप्यनुमीयते तर्हि तत एव सकलार्थदर्शी किं नानुमीयते ? | स्वपक्षे चानुपलम्भमप्रमाणयन् सर्वज्ञाभावे कुतः प्रमाणवेद20 विशेषात् ? । ६६१. न चानुमानं तद्भावकं सम्भवतिः धर्मिग्रहणमन्तरेणानुमानाप्रवृत्तेः, धम्मग्रहणं वा तद्ग्राहक प्रमाणवाधितत्वादनुत्थानमेवानुमानस्य । अथ विवादाध्यासितः पुरुषः सर्वो न भवति वक्तृत्वात् पुरुषत्वाद्वा रथ्यापुरुषवदित्यनुमानं तद्वाधकं भूये; तदसत् यतो यदि प्रमाणपरिदृष्टार्थवक्तृत्वं हेतुः तदा विरुद्धः तादृशस्य वक्तृत्वस्य सर्वश एव 25 भावात् । अथासद्भूतार्थं कृत्वम् तदा सिद्धसाध्यता, प्रमाणविरुद्धार्थवादिनामसर्वज्ञत्वेनेष्टस्वात् । वक्तृत्वमात्रं तु सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् ज्ञानप्रकर्षे वत्वाकर्षादर्शनात् प्रत्युत ज्ञानातिशयवतो वकृत्वातिशयस्यैवोपलब्धेः । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि यदि रागाद्यदूषितं तदा विरुद्धम्, ज्ञानवैराग्यादिगुणयुक्त पुरुषत्वस्य सर्वज्ञतामन्तरेणानुपपत्तेः । रागादिदूषिते तु पुरुषत्वे सिद्धसाध्यता । पुरुषत्वसामान्यं तु 30 सन्दिग्धविपक्षव्यावृतिकमित्यबाधकम् । १ प्रभाग २ निवर्तमानम् । ( तद्धि ) यदि मु० । ३० साक्षात्करणम ०-० ।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182