Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
HIRANI
weste
rnetuRemi BREAMERIES
EPISATORIAciane.nettestanisatist.institua
प्रत्यक्षीयलक्षणान्तरनिरासः । ] प्रमाणमीमांसा । च्छित्तौ साधकतमा भवन्ति व्यभिचारात् ?, सत्यपीन्द्रियार्थसभिकर्षेऽर्थोपलब्धेरभावात् । ज्ञाने सत्येव भावात् , साधकतमं हि करणमव्यवहितफलं च तदिति |
६१०९. सत्रिकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तहि स चक्षुषोऽर्थेन सह नास्ति अप्राप्यकारित्वात्तस्य । दृश्यते हि काचाभ्रस्फटिकादिव्यवहितस्याप्यर्थस्य चक्षुषोपलब्धिः । अथ प्राप्यकारि चक्षुः करणत्वाद्वास्यादिवदिति ब्रूषे तायस्कान्ता- 5 कर्षणोपलेन लोहासनिकृष्टेन व्यभिचारः । न च संयुक्तसंयोगादिः संश्निकर्षस्तत्र कल्पयितुं शक्यते, अतिप्रसङ्गादिति ।।
६११०: सौगतास्तु "प्रत्यक्षं कल्पनापोढमभ्रान्तम्" [ न्यायवि० १.४ ] इति लक्षणमवोचन् । “अमिलापसंसर्गयोग्यप्रतिभासा प्रतीति: कल्पना तयारहिसमे"- न्यायवि० १.५,६] कल्पनापोहम् इति। एतच्च व्यवहारानुपयोगित्वात्प्रमाणस्य 10 लक्षणमनुपपन्नम् , तथाहि एतस्माद्विनिश्चित्यार्थमर्थक्रियार्थिनस्तत्समर्थेऽर्थे प्रवर्तमाना विसंवादाजो मा भवन्निति प्रमाणस्य लक्षणपरीक्षायां प्रवर्तन्ते परीक्षकाः । व्यवहारानुपयोगिनश्च तस्य वायसंसदसद्दशनपरीक्षायामिव निष्फलः परिश्रमः । निर्विकल्पोत्तरकालभाविनः सविकल्पकात्तु व्यवहारोपगमे वरं तस्यैव प्रामाण्यमास्थ्यम् , किमविकल्पकेन शिखण्डिनेति ।।
16 १११. जैमिनीयास्तु धर्म प्रति अनिमित्तत्यच्याजेन "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यलमनिमितं विद्यमानोपलम्भनत्वात्" [ जैमि. १.१.४] इत्यनुवादभङ्गथा प्रत्यक्षलक्षणमाचक्षते, यदाहुः
"एवं सत्यनुवादित्वं लक्षणस्थापि सम्भवेत् ।" [श्लोकवा. सू. ४.३९] इति । ब्याचक्षते च-इन्द्रियाणां सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धिःप्रत्यक्षमिति । 20
११२. अत्र संशयविपर्यययुद्धिजन्मनोऽपीन्द्रियसंप्रयोगे सति प्रत्यक्षत्वप्रसङ्गादतिव्याप्तिः । अथ 'सत्सम्प्रयोग' इति सता सम्प्रयोग इति व्याख्यायते तहि निरालम्बनविनमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ सति सम्प्रयोग इति सत्सप्तमीपक्ष एव न त्यज्यते संशयविपर्ययनिरासाय च 'सम्प्रयोग इत्यत्र 'सम्' इत्युपसर्गों वर्ण्यते, यदाह
25 "सम्यगर्थे च संशब्दो दुष्प्रयोगनिधारणः।।
दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात्" [लोकवा सू० ४. ३८..] १काचाम्रपट लस्फ-डे | २-श्यार्थस्थ-डे-1-निकर्षण ध्या-ता०।४-०गादिसन्नि. -डे । ५ रहित तथापोहम्-डे. प रहितम् तयापोडम् -मु. । ६ वायससदसन (वायसदान)परी -ता। ७एतत्समाचम्काकस्य कति यादन्ता मेषस्याएं किया पलम् ।
गर्दमे कति रोमाणीत्येषा मूग्यविचारणा ।। -मु-टि. ८शिखहिन्-लायबरे वृतेन मीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैव शिखण्डीति सषज्ञवा व्यवजहे। सच स्त्रीपूर्ववानिन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भी जपान। सोऽपि शिवम्ही पधादश्चत्याम्ना हुनः।-मु-टि०। ९ वादत्वं-मु०।१०-०संयोगे डे।
..."
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182