Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
Healingan
निग्रहस्थानस्य निरूपणम् । ] प्रमाणमीमांसा । क्षयायेकान्ते सर्वथार्थक्रियाविरोधात् सन्चानुपपत्तेरिति च समयते । तावता च परोक्तहेतोर्दूषणाकिमन्योचारणेन ?। अतो यनान्तरीयिका साध्यसिद्धिस्तस्यैवाप्रत्युच्चारणमननुभाषण प्रतिव्यम् । अथ सूचितुमसमर्थः शास्त्रार्थपरिज्ञानविशेषविकलत्वात् । तदायमुराप्रतिपत्तेरेय तिरस्क्रियते न पुनरननुभाषणादिति १४ । ___६९५. पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञानं नाम । निग्रहस्थानं भवति । अविदितोचरविषयो हि कोत्तरं ब्रूयात् ।। न चाननुभाषणमेवेदम् , ज्ञातेsपि वस्तुन्यनुभापणासामर्थ्यदर्शनात् । एतदप्यसाम्प्रतम्, प्रतिज्ञाहान्यादिनिग्रहस्थानानां भेदाभावानुषङ्गात् , तत्राप्यज्ञानस्यैव सम्भवात् । तेषां तत्प्रभेदत्वे वा निग्रहस्थानप्रतिनियमाभावप्रसङ्गः, परोक्तस्याऽर्धाज्ञानादिभेदेन निग्रहस्थानानेकत्वप्रसङ्गात् १५।
६९६. परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभा नाम निग्रह- 10 स्थानं भवति । एषाप्यज्ञानान्न भिद्यते १६ ।
६९७. "कार्यव्यासलात् कथाचिच्छेदो विक्षेप:" [म्याअसू० ५. २. १९] नाम निग्रहस्थानं भवति । सिषाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनति'इदं मे करणीयं परिहीयते, पीनसेन कण्ठ उपरुद्धः' इत्याधभिधाय कथां विच्छिन्दन विक्षेपेण पराजीयते । एतदथ्यज्ञानंतो नार्थान्तरमिति १७ ॥
15 ६९८, स्वपक्षे परापादितदोषमनुवृत्य तमेव परपक्षे प्रतीपमापादयतो मतानुना नाम निप्रहस्थानं भवति । चौरो भवान् पुरुषत्वात् प्रसिद्धचौरबदित्युक्ते-भवानपि चोरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितं चौरत्वदोषमभ्युपगतवान् भवतीति मतानुशया निगृह्यते । इदमप्यज्ञानान भिद्यते । अनैकान्तिकता वात्र हेतोस हात्मीयहेतोगत्मनवानैकान्तिकतां दृष्ट्वा प्राह-भवत्पक्षेऽप्ययं दोषः समानस्त्वमपि पुरुषोऽसीत्यनैकान्तिकत्व- 20 मेवोद्धावयतीति १८ ।
९९. निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं भवति । पर्यनयोज्यो नाम निग्रहोपपत्त्यावश्यं नोदनीयः 'इदं ते निग्रहस्थानमुपनतमतो निगृहीतोऽसि इत्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते । एतच 'कस्य निग्रहः' इत्यनुयुक्तया परिषदोद्धापनीयं न स्वसावात्मनो दोषं विघृणुयात 'अहं 25 निग्राधस्त्वयोपेक्षितः' इति । एतदप्यज्ञानात्र भिद्यते १९।
१००, “अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः" [ न्यायसू० '.. २. २२ ] नाम निग्रहस्थानं भवति । उपपत्रवादिनमप्रमादिनमनिग्रहार्हमपि 'निगृहीतोऽसि' इति यो ब्रूयात्स एवाभूतदोषोद्भावनाभिगृह्यते । एतदपि नाज्ञानाद्वयतिरिच्यते २० ।
30
RAAMIma.
TAMANANA
तावता परो-डे । २ मेदा -. । ३ -मतो न मियते। स्व.-मु-पा०४-रास्मीयेनैव - 21 पुरुषो भवसी० - ३०। ६-०स्थानामियो -मु-पा० ।
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182