Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 136
________________ आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ०१, सू० ३१-३४. [ न्या० १. २. २ ], "स प्रतिपक्षस्थापनाहीनी वितण्डा' न्या. ६. २. ३] इति लक्षणे भेदाअल्पवितण्डे अपि कथे विद्यते एव ; न प्रतिपक्षस्थापनाहीनाया विनण्डायाः कात्यायोगात् । चैतण्डिको हि स्वैपक्षमभ्युपगम्यास्थापयन् यत्किचिद्वादेन परपक्ष मेव दूषयन् कथमवधेयवचनः १। जल्पस्तु यद्यपि द्वयोरपि वादिप्रतिवादिनोः साधनो5 पालम्भसम्भावनया कथात्वं लभते तथापि न बादादर्थान्तरम् , वादेनेव चरितार्थत्वात् । छलजातिनिग्रहस्थानभ्यस्त्वयोगादचरितार्थ इति चेत् न, छलजातिप्रयोगस्य दूषणाभासत्वेनाप्रयोज्यत्वात् , निग्रहस्थानानां च वादेप्यविरुद्धत्वात् । न खलु खर्टचपेटासुखबन्धादयोऽनुचिता निग्रहा जल्पेऽप्युपयुज्यन्ते । उचितानां च निग्रहस्थानानां वादेऽपि न विरोधोऽस्ति । तत्र वादात् अल्पस्य कश्चिद् विशेषोऽस्ति । लाभपूजा10 ख्यातिकामितादीनि तु प्रयोजनानि तस्वाध्यवसायसंरक्षणलक्षणप्रधानफलानुबन्धीनि पुरुषधर्मत्वाद्वादेऽपि न निवारयितुं पार्यन्ते । ६७१. ननु छलजातिप्रयोगोऽसदुत्तरत्वाद्वादे न भवति , जल्पे तु तस्यानुजानादस्ति बादजल्पयोर्विशेषः । यदाह "दु:शिक्षितकुतकापालेशवाचालिताननाः । शक्या किमन्यथा जेतुं वितण्डाटोपपण्डिताः ॥ गतानुपतिको खोका कुमार्ग तत्प्रतारितः । मा गादिलिच्छलादीनि माह कारुणिको मुनिः" ॥ इति । [ न्यायम० पृ. नैवम् । असदुत्तरैः परप्रतिक्षेपस्य कर्तुमयुक्तत्वात् । न अन्यायेन जयं यशो धनं या महात्मानः समीहन्ते । अथ प्रबलप्रतिवादिदर्शनात् ताये धर्मध्वंससम्भावनात् । 20 प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासादसदुत्तरैरपि पांशुभिरिवावकिरनेकान्तपराजयादरं सन्देह इति धिया न दोषमावहतीति चेत् ; न, अस्यापचादिकस्य जात्युत्तरप्रयोगस्य कथान्तरसमर्थनसामाभावात् । बाद एव द्रध्यक्षेत्रकालभावानुसारेण यद्यसदुत्तरं कथंचन प्रयुञ्जीत किमेतावता कथान्तरं प्रसज्येत । तस्माअल्पवितण्डानिराकरणोन वाद एवैकः कथाप्रथां लभत इति स्थितम् ।। ३० ।।। 25६७२. वादश्च जयपराजयावसानो भवतीति जयपराजययोर्लक्षणमाह.. स्वपक्षस्य सिद्धिर्जयः ॥ ३१ ॥ ६७३. वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा जयः। सा च स्वपक्षसाधनदोषपरिहारेण परपक्षसाधनदोषोद्भावनेन च भवति । स्वपक्षे साधनमब्रुवन्नपि प्रति १- हीना वि.- ० । २"प्रयोजनम् (हैमा० ६. ४. ११५) इतीकण । ३-० कोऽपि स्व-ता । ४ प्रत्यपि । ५ यश्च तत् किधिच तस्य वादः । ६ तृणविशेष 4 ७ अनुसारीणि 1 ८ छलादीन् निना । तस्य प्रतिवादिनो जये 1 १० चेत् अस्था--ता- 1 ११ परिहारोद्वानमाभ्यां समस्ताभ्यां न व्यस्ताभ्याम् इति भार्थः ।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182