Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
प्रमेयस्य निरूपणम् । ]
प्रमाणमीमांसा |
"अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उष्ट भो ! फलितांस्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ॥ " [ न्यायम० पृ० ४६४ ] इति ।
૨૭
$ १२८. नाप्यक्रमेण क्षणिकेऽर्थक्रिया सम्भवति । स होको रूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन् यद्येकेन स्वभावेन जनयेत्तदा तेषामेकत्वं स्यादेकस्वभावजन्यत्वात् । 5 अथ नानास्वभावैर्जनयति - किञ्चिदुपादानभावेन किञ्चित् सहकारित्वेन ते तर्हि स्वभावास्वस्यात्मभूता अनात्मभूता वा १ । अनात्मभूताश्चेत्; स्वभावहानिः । यदि तस्यात्मभूताः तहिं तस्यानेकत्वं स्वभावानां चैकत्वं प्रसज्येत । अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद हृष्यते; तहिं नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्यं चमा भूत् । अथाक्रमात् क्रमिणामनुत्पत्तेनैवैमिति चेत्; एकानंश- 10 कारणात् युगपदनेककारणसाध्यानेककार्यविरोधात् क्षणिकानामप्यक्रमेण कार्यकारित्वं मा दिति पर्यायैकान्तादपि क्रमाक्रमयोर्व्यापकयोनिवृत्यैच व्याप्याऽर्थक्रियापि व्यावर्तते । aurat aurat व्यापकानुपलब्धिवनैव निर्तत इत्यस्न पर्यायैकान्तोऽपि ।
"
$ १२९. काणादास्तु द्रव्यपर्यायानुभावप्युपागमन् पृथिव्यादीनि गुणाद्याधाररूपाणि द्रव्याणि, गुणादयस्त्वावेयत्वात्पर्यायाः । ते च केचित् क्षणिकाः केचिद्यावव्य- 15 भाविनः केचिभित्य इति केवलमितरेतरविनिलुठितैधर्मिधर्माभ्युपगमात्र समीचीनविषयवादिनः । तथाहि - यदि द्रव्यादत्यन्तविलक्षणं सम्वं तदा द्रव्यमसदेव भवेत् । सत्तायोगात् सभ्यमस्त्येवेति चेत्; असतां सत्तायोगेऽपि कुतः सच्चम् ?, सतां तु निष्फलः सत्तायोगः । स्वरूप भावानामस्त्येवेति चेत्; तहिं किं शिखण्डिना सत्तायोगेन ? । सत्तायोगात् प्राक् भावो न सन्नाप्यसन, सत्तासम्बन्धात्तु सन्निति चेत्; वामात्रमेतत्, सदस- 20 द्विलक्षणस्य प्रकारान्तरस्यासम्भवात् । अपि च पैदार्थः सत्ता योगः' इति न त्रितयं चकास्ति | पदार्थसत्तयोश्च योगो यदि तादात्म्यम्, तदनभ्युपगमबाधितम् । अत एव न संयोगः समवायस्त्वनाश्रित इति सर्वे सर्वेण सम्बध्नीयान वा किञ्चित् केनचित् । एवं द्रव्यगुणकर्मणां द्रव्यत्वादिभिः द्रव्यस्य द्रव्यगुणकर्मसामान्यविशेषैः पृथि - व्यतेजोवायूनां पृथिवीत्वादिभिः, आकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं 25 सर्वमभिधानीयम्, एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौक्यपक्षेsपि विषयव्यवस्था दुःस्था |
"
१०ता तथा ०डे० । २ बीजपूरादौ । ३ युगपदेकान्ता० ४ नित्यस्यैकरूपस्यापि क्रमेणेत्यादिको प्रन्थो न घटते । ५ न हि एकश उपादानस्वरूपोऽन्यथ सहकारिस्वरूपो भवन्मतेऽस्ति । ६ - मेणाकारि० - है । ७ --- लुभावप्यन्युपा०--० । वृद्धादयः । घटरूपादयः । १० आप्यरूपया (पा)दयः [ जलादिपरमाणुरूपादीनां नित्यत्वात् ] ११० मिन० । १२० डे० १३ अनभ्युपगमात्वात् एव । १४ संयोगो हिं ब्रव्ययोरेव । १५ आदेर्गुणत्कर्म । १६ केनन्वित सम्ब०ता० मु० ।
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182