Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 90
________________ आचार्यश्री हेमचन्द्रविरचिता [अ० १ ० १ सू०२२-२५. व्यभिचारादिति । एतेन तेषामात्मना भेदाभेदैकान्तौ प्रविव्यूढौ । आत्मना करणानामभेदेकान्ते कर्तृत्वप्रसङ्गः, आत्मनो वा करणत्वप्रसङ्गः उभयोरुभयात्मकत्वप्रसङ्गो वा विशेषाभावात् । ततस्तेषां भेदैकान्ते चात्मनः करणत्वाभावः सन्तानान्तरकरणवद्विपर्ययो aa प्रतीतिसिद्धत्वाद्वाधकाभावाचानेकान्त एवाश्रयणीयः । 5 ८१. द्रव्येन्द्रियाणामपि परस्परं स्वारम्भक दलद्रव्येम्यश्च भेदाभेदद्वाराने कान्स एव युक्तः, पुद्गलद्रव्यार्थादेशादभेदस्य पर्यायार्यादेशाच्च भेदस्योपपद्यमानत्वात् । 20 १८ ६८२ एवमिन्द्रियविषयाणां स्पर्शादीनामपि द्रव्यपर्यायरूपतया भेदाभेदात्मकत्व - सेयम्, तथैव निर्बाधमुपलब्धेः । तथा च न द्रव्यमात्र पर्यायमात्रं वेन्द्रियविषय इति स्पर्शादीनां कर्मसाधनत्वं भावसाधनत्वं च द्रष्टव्यम् ॥ २१ ॥ 10 ६८३. 'द्रव्यभावभेदानि' इत्युक्तं तानि क्रमेण लक्षयतिद्रव्येन्द्रियं नियताकाराः पुद्गलः ॥ २२॥ ६८४. 'द्रव्येन्द्रियम्' इत्येकवचनं जात्याश्रयणात् । नियतो विशिष्टो बाह्य आभ्यन्तरवाकारः संस्थानविशेषो येषां ते 'नियताकाराः ' पूरणगलनधर्माण: स्पर्शरसगन्धवर्णवन्तः 'पुद्गलाः', तथाहि श्रोत्रादिषु यः कर्णशष्कुलीप्रभृतिर्बाह्यः पुद्गलानां प्रचयो यथाभ्यन्तरः 15 कदम्बगोलकाद्याकारः स सर्वो द्रव्येन्द्रियम्, पुद्गलद्रव्यरूपत्वात् । अप्राधान्ये वा द्रव्यशब्दो यथा अङ्गारमईको द्रव्याचार्य इति । अप्रधानमिन्द्रियं द्रव्येन्द्रियम्, व्यापारवत्यपि तस्मिन् सन्निहितेऽपि चालोकप्रभृतिनि सहकारिपटले भावेन्द्रियं विना स्पर्शाधुपलब्ध्यसिद्धेः ||२२|| 25 भावेन्द्रियं लब्ध्युपयोगो ॥२३॥ ६८५. लम्भनं 'लब्धि:' ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधानादात्मा द्रव्ये - न्द्रियनिर्वृतिं प्रति व्याप्रियते तनिमित्त आत्मनः परिणामविशेष उपयोगः । अत्रापि 'भावेन्द्रियम्' इत्येकवचनं जात्याश्रयणात् । भावशब्दोऽनुपसर्जनार्थः । यथैवेन्दन धर्मयोगित्वेनानुपचरितेन्द्रत्वो भावेन्द्र उच्यते तथैवेन्द्रलिङ्गत्वादिधर्मयोगेनानुपचरितेन्द्रलिङ्गत्वादिधर्मयोग 'भावेन्द्रियम्' | ६८६. तत्र four तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावेन्द्रियतां प्रतिपद्यते । नहि तत्रायोग्यस्य तदुत्पत्तिराकाशवदुपपद्यते स्वार्थसंविद्योग्यतैव च लब्धिरिति । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् । नाव्यामृतं स्पर्शनादिसंवेदनं स्पर्शादि प्रकाशयितुं शक्तम्, सुषुप्तादीनामपि तत्प्रकाशकत्वप्राप्तेः । १ द्वाविंशतितमं त्रयोविंशतितमं च great तान्मू० प्रतौ दृश्यते । २ -०लब्ध्ययोग्यतया सिद्धैःसा० ॥ ३धानाद्वामा ४० । धानाश्रयात्मा मु० । ४ प्राधान्यार्थः । ५ स्पर्शादि - ता० ।

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182