SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १४ आचार्यश्री हेमचन्द्रविरचिता [अ० १, आ० १ सू० १७-१९. इति । अथापि रागादिदोषकालुष्यविरहिताः सततज्ञानानन्दमयमूर्तयो ब्रह्मादयः तर्हि तादृशेषु तेषु न विप्रतिपद्यामहे, अवोचाम हि "यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिषया यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥" [ अयोग-३१] 5 इति । केवलं ब्रह्मादिदेवताविषयाणां श्रुतिस्मृतिपुराणेतिहासकथानां वैतथ्यमासज्येत । तदेवं साधकेभ्यः प्रमाणेभ्योऽतीन्द्रियज्ञानसिद्धिरुक्ता ॥ १६ ॥ बाधकाभावाच ॥१७॥ ५९. सुनिश्चितासम्भवाधकत्वात् सुखादिवत् तत्सिद्धिः इति सम्बध्यते । तथाहि 10 केवलज्ञानबाधकं भवत् प्रत्यक्षं वा भवेत् प्रमाणान्तरं वा १ । न तावत् प्रत्यक्षम् तस्य faridaाधिकारात् "सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना ।" [ श्लोकवा ० सू० ४, श्लो. ८४ ] सेवगणात् । ६०. अथ न प्रवर्तमानं प्रत्यक्षं तद्भावकं किन्तु निवर्तमानम् तत् ; हिं ( द्विग्यदि 15 नियत देशकालविषयत्वेन बाधकं तर्हि सम्प्रतिपद्यामहे । अथ सकलदेशकालविषयत्वेन; तर्हि न तत् सकलदेशकालपुरुष परिषत्साक्षात्कारमन्तरेण सम्भवतीति सिद्धं नः सभीहितम् । न च जैमिनिरल्यो वा सकलदेशादिसाक्षात्कारी सम्भवति सम्वपुरुषत्वादेः रथ्यापुरुषवत् । अथ प्रज्ञायाः सातिशयत्वात्तत्प्रकर्षोऽप्यनुमीयते तर्हि तत एव सकलार्थदर्शी किं नानुमीयते ? | स्वपक्षे चानुपलम्भमप्रमाणयन् सर्वज्ञाभावे कुतः प्रमाणवेद20 विशेषात् ? । ६६१. न चानुमानं तद्भावकं सम्भवतिः धर्मिग्रहणमन्तरेणानुमानाप्रवृत्तेः, धम्मग्रहणं वा तद्ग्राहक प्रमाणवाधितत्वादनुत्थानमेवानुमानस्य । अथ विवादाध्यासितः पुरुषः सर्वो न भवति वक्तृत्वात् पुरुषत्वाद्वा रथ्यापुरुषवदित्यनुमानं तद्वाधकं भूये; तदसत् यतो यदि प्रमाणपरिदृष्टार्थवक्तृत्वं हेतुः तदा विरुद्धः तादृशस्य वक्तृत्वस्य सर्वश एव 25 भावात् । अथासद्भूतार्थं कृत्वम् तदा सिद्धसाध्यता, प्रमाणविरुद्धार्थवादिनामसर्वज्ञत्वेनेष्टस्वात् । वक्तृत्वमात्रं तु सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् ज्ञानप्रकर्षे वत्वाकर्षादर्शनात् प्रत्युत ज्ञानातिशयवतो वकृत्वातिशयस्यैवोपलब्धेः । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि यदि रागाद्यदूषितं तदा विरुद्धम्, ज्ञानवैराग्यादिगुणयुक्त पुरुषत्वस्य सर्वज्ञतामन्तरेणानुपपत्तेः । रागादिदूषिते तु पुरुषत्वे सिद्धसाध्यता । पुरुषत्वसामान्यं तु 30 सन्दिग्धविपक्षव्यावृतिकमित्यबाधकम् । १ प्रभाग २ निवर्तमानम् । ( तद्धि ) यदि मु० । ३० साक्षात्करणम ०-० ।
SR No.090370
Book TitlePramanmimansa
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1989
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy