Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ - [7] जीवविचार वृ. गूढानि-गुप्तानि प्रकटतयाऽज्ञायमानानि सिराः स्नसाः संधयः पर्वाणि च यस्य पत्रनालादेस्त द्गुढसिरासन्धिपर्व / तथा यस्य त्रोट्यमानस्य पत्रादेः समोऽदन्तुरो भंगश्छेदो भवति तत्समभंगम् / तथा छिद्यमानस्य न विद्यते हीरकाः तन्तुलक्षणा मध्ये यस्य तदहीरकम् / तथा यस्य छिन्नमपि खण्डं जलादिसामग्री प्राप्य गडूच्यादिवदन्यत्र पुनः प्ररोहति तच्छिन्नरुहम् / तदेतैर्लक्षणैः साधारणमनन्तकायिकशरीरं ज्ञेयम् / तल्लक्षणविपरीतं पुनः प्रत्येकं शरीरं बोध्यम् // 12 // अथ प्रत्येकवनस्पतेर्लक्षणादिकमाहएगसरीरे एगो, जीवो जेसिं तु ते य पत्तेया / फलफूल्लछल्लिकट्ठा, मूलगपत्ताणि बीयाणि // 13 // येषां तरूणामेकस्मिन् शरीरे एको जीवः स्यात् ते प्रत्येका वनस्पतयः उच्यन्ते / चः समुच्चये, तुरेवार्थे ते एवेत्यर्थः / प्रत्येकवृक्षाणां सप्तसु स्थानेषु पृथग्जीवाः सन्ति / तानि स्थानानि दर्शयति-फलानि 1 पुष्पाणि 2 छल्लयः 3 काष्ठानि 4 मूलानि 5 पत्राणि 6 बीजानि 7 चेति / इह प्रत्येकवनस्पतीनां नाममात्रमुपदर्शित, भेदविशेषविचारस्तु प्रज्ञापनादिभ्योऽवसेयः // 13 // . अथ सर्वैकेन्द्रियानाश्रित्य पृथ्व्यादयः पंचापि क्व क्व सन्तीति तद्विशेषमाहपनेयतरं मुत्तुं पंचवि पुढवाइणा सयललोए / सुहुमा हवंति नियमा अंतमुहुत्ताउ अदिस्सा // 1 // प्रत्येकतरुं मुक्त्वा पंचापि पृथिव्यादयः सक्ष्मैकेन्द्रिया नियमात् निश्चयेन-सकललोके चतुर्दशरज्जुप्रमाणे लोके भवन्ति विद्यन्ते / परं ते
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9697d76f20b56dd663f417e78039f74182616a36ec0a9ff2f836decf321f248d.jpg)
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116