Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 94
________________ - - - [67] दण्डक वृ. इमा तु एषा गाथा संक्षिप्ततरा वर्तते, यतो नाममात्रेण चतुर्विंशतिबक्तव्यानि सचितानि न विस्तरतः। तत्र प्रथमं वक्तव्यं शरीरं, तत् शरीरं पञ्चघा वर्तते; तथाहि-औदारिकं 1 वैक्रियं 2 आहारकं 3 तेजसं 4 कार्मणं 5 च / अत्रायं भावार्थः-एतेषां पञ्चशरीराणां मध्ये कति शरीराणि कस्मिन् दण्ड के लभ्यन्ते ? एवं सर्वत्र दण्डकेषु सर्वेषां वक्तव्यानां भावना कार्या 1 / अवगाहना-शरीरमानं तत् त्रेधा-जघन्यं 1 मध्यमं 2 उत्कृष्टं 3 संहननं-कर्मग्रन्थाभिप्रायेण अस्थिरचनारूपं तत् षोढा तथाहि-- वज्रऋषभनाराचं 1 ऋषभनाराचं 2 नाराचं 3 अर्धनाराचं 4 कीलिका 5 सेवात 6 च 3 / . संज्ञाश्चतस्रः-आहारसंज्ञा 1 भयसंज्ञा 2 मैथुनसंज्ञा 3 परिग्रहसंज्ञा 4 अथवा दश क्रोधसंज्ञा 1 मानसंज्ञा 2 मायासंज्ञा 3 लोभसंज्ञा 4 लोकसंज्ञा 5 ओघसंज्ञा 6 पूर्वोक्त 4 संज्ञामीलने जाता दश 10 / तत्र ओघसंज्ञा का इत्याह-अव्यक्तोपयोगरूपा वल्ली वितानारोहणादिरूपा ज्ञानावरणीयऽल्पक्षयोपशमसमुद्भवा च इति श्रीआचारांगवृत्ती षष्ठपत्रे शेष सुगम 4 / संस्थानानि षटू तथाहि-समचतुरस्रसंस्थान 1 न्यग्रोध 2 सादि 3 वामन 4 कुब्ज 5 हुंड 6 रूपाणि 5 / 'कपायाश्चत्वारस्ते च क्रोध 1 मान 2 माया 3 लोभ 4 रूपाः 6 / लेश्याः षट् ताश्चेमाः-कृष्णलेश्या 1 नीललेश्या 2 कापोतलेश्या 3 तेजोलेश्या 4 पद्मलेश्या 5 शुक्ललेश्या 6 च / अत्र तु द्रव्यरूपा अवस्थितरूपा विचार्या न भावलेश्याः 7 /

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116