Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 93
________________ प्रकरणत्रयी [66] अथ चतुर्विंशतिदण्डकान् नामग्राहमाह-- नेरइआ असुराई पुढवाई बेइंदियादओ चेव / गब्भयतिरिअंमणुस्सा वंतरजोइसिअवेमाणी // 2 // नेरइआ-नारकास्तेषां सप्तानामपि कथंचित् सूत्रे एक एव दण्डको गणितः 1 / असुराई-अमुरादयः दश दण्डकाः / असुरादयो दश ते चैते असुरकुमाराः 1 नागकुमाराः 2 सुवर्णकुमाराः 3 विद्युत्कुमाराः 4 अग्निकुमाराः५ द्वीपकुमाराः६ उदधिकुमाराः 7 दिकुमाराः 8 वायुकुमारा 9 स्तनितकुमाराः 10 इति 11 / पुढवाई इति पृथिव्यादयः पञ्च ते चैते पृथिवी 1 अप् 2 तेजो 3 वायु 4 वनस्पतिरूपाः 5 / अत्र च सूक्ष्माश्चतुर्दशलोकव्यापिनः पृथिव्यादयः अपर्याप्ता न ग्राह्यास्तेषां पृथक् द्वाराभावात् जाताः षोडश 16 / पुनः बेइंदियादओ इति द्वीन्द्रियादयस्त्रयस्ते चैते द्वीन्द्रियाः 1 त्रीन्द्रियाः 2 चतुरिन्द्रियाः 3 जाता एकोनविंशतिः 19 / पुनः गर्भजतिर्यगमनुष्याः अयमर्थःगर्भनतिर्यच 1 गर्भजमनुष्याश्च 2 ततो जाता एकविंशतिः पुनः वंतरजोइसिअवेमाणित्ति व्यन्तराः 22 ज्योतिषिका 23 वैमानिकाच 24 जाताः सर्वेऽपि चतुर्विशतिः 24 // 2 // अथ चतुर्विशतिदण्डकेषु यानि चतुर्विशतिवक्तव्यस्थानानि तानि नामत आहसंखित्तयरी उ इमा सरीरमोगाहणा य संघयणा। सण्णा-संठाण-कसाय-लेस-इंदिय-दुसमुग्घाया // 3 // दिट्ठीदंसणनाणे जोगुवओगोक्वायचवणठिई / पज्जत्ति किमाहारे सन्निगइआगईवेए // 4 // [ द्वारगाथा ]

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116